________________
४९८]
[धर्मसंग्रह:-तृतीयोऽधिकारः एव प्रकाशदेशस्थो रजोहरणं प्रतिलिखति, तत्रापि प्रभाते प्रथमान्तरीं सूत्रमयीं निषद्यामपराण्हे च बाह्यामूर्णामयीं प्रतिलेखेद् । यदुक्तं यतिदिनचर्यायाम् -
"दाऊण खमासमणं, पुव्वि पडिलेहिऊण उक्कुडुओ। पडिलेहइ रयहरणं, पयासदेसट्ठिओ सम्मं ॥१॥ [ य.दि./८०] पडिलेहिज्जइ पढमं, पभायपडिलेहणाइ रयहरणं ।
अब्भंतरा निसज्जा, मज्झण्हे बाहिरा पढमं" ॥२॥ [ य.दि./८१ ] इति । तत: चोलपढें प्रतिलेख्यक्षमाश्रमणपूर्वम् ‘इच्छकारी भगवन् पसाउगरि पडिलेहणा पडिलेहावओत्ति' भणित्वा त्रयोदशभिः प्रतिलेखनाभिः स्थापनाचार्य प्रतिलिख्य स्थापयित्वा च स्थाने क्षमाश्रमणपूर्वम् 'उवहिमुहपुत्तिं पडिलेहेमि त्ति' भणित्वा च मुखवस्त्रिकां प्रतिलिखेत् , ततश्चैकेन क्षमाश्रमणेनोपछि संदिशाप्य द्वितीयेन तेनोपधिं प्रतिलिखेत् , तत्र पूर्वमौर्ण कल्पम् , ततः सौत्रं कल्पद्वयम् , ततः संस्तारकम् , ततश्चोत्तरपट्टमिति सूर्योदयात् पूर्वम् प्रतिलेखनाक्रमः, तदुक्तं यतिदिनचर्यायां रजोहरणप्रतिलेखनानन्तरप्रस्तावे -
"अह लहुअवंदणजुयं, काउं निम्मवइ अंगपडिलेहं । ठवणायरिअं तत्तो, पडिलेहइ ठवइ ठाणंमि ॥१॥[ य.दि./८२] मुहणंतगपडिलेहा, पुट्विं दो चेव छोभवंदणए ।
काऊण संदिसावइ, उवहिं पडिलेहए तत्तो" ॥२॥[ य.दि./८३ ] इति । उपधिप्रतिलेखनायां च प्रथममुपकरणार्ग्रहणनिक्षेपणसंक्रमणस्थानानि निरीक्षणीयानि प्रमार्जनीयानि च । तदुक्तमोघनिर्युक्तौ -
"उवगरणाईआणं, गहणे निक्खेवणे य संकमणे।
ठाणनिरिक्खपमज्जण, काउंपडिलेहए उवहिं"॥१॥[ओ.नि.भा./गा.१५७] 'संकमणं'ति स्थानात् स्थानान्तरसङ्क्रमणमिति । अत्र च सम्यक्पदेन सकलोऽपि वस्त्रप्रतिलेखनाविधिः सूचितः । स चायं ओघनियुक्ति-पञ्चवस्तुकादिगतः -
"उर्दू १ थिरं २ अतुरियं ३, सव्वं ता वत्थ ४ पुव्वपडिलेहे ५ ।
तो बीयं पप्फोडे, तइअंच पुणो पमज्जेज्जा" ॥१॥[ओ.नि.२६४, प.व.२३३] व्याख्या-तत्र वस्त्रोर्ध्वं कायोर्ध्वं चाचार्यमतेन भविष्यति, नोदकमतेन च वक्ष्यमाणम् , तत्र वस्त्रोक् कायोर्ध्वं च यथा भवति तथा प्रत्युपेक्षतेति । 'थिरं'ति स्थिरं सुगृहीतं कृत्वा
१. तुला-ओघनियुक्तिटीका प० १०७-८ ॥ २. वस्त्रोर्ध्वं यथा-मु० C.।।
D:\new/d-3.pm53rd proof