SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ प्राभातिककर्त्तव्यम् -श्लो० ९१॥] [४९७ कालग्रहणविधिश्च योगविधितो ज्ञेयः । इयांस्तु विशेष: - "ताहे एगो साहू उवज्झायस्स अण्णस्स वा संदिसावित्ता पाभाइअकालं गिण्हइ, तओ गुरु उठेइ त्ति" [ ]। अथ चेर्यापथिकीपाठादिसकलमनुष्ठानं शनैः शनैः कार्यमित्यादिः कायोत्सर्गादिविधिविशेषश्च प्राग्निरूपित एव । आचार्यादिभिश्च प्रतिक्रमणकरणसमये जाग्रद्भिरेष सर्वोऽपि ईर्यापथिकीप्रतिक्रमणादिविधिस्तदैव कार्यः । यतः - "आयरियगिलाणाई, जे न वि जग्गंति पच्छिमे जामे । आवस्सयस्स समए, कज्ज इरिआइ तेहिं तु" ॥१॥[ य.दि./गा. १४] ततस्तदनन्तरम् ‘आवश्यकक्रिया' प्रतिक्रमणकरणमित्यर्थः । एतद्विधिरपि प्रागुक्त एव, कियान् विशेषस्तु दैवसिकप्रतिक्रमणविशेषसम्बद्ध एव दर्शयिष्यते । अत्र च प्रतिक्रमणक्रियान्ते बहुवेलं संदिशाप्य बहुवेलं कुर्वन्ति । तत्र बहुवेलशब्देन बहुवेलाभावीनि अक्षिभूचालनादीनि सूक्ष्मकार्याणि प्रोच्यन्ते, तान्यपि गुरुणाऽननुज्ञातानां सतां यतीनां न कल्पन्त इति युगपदेव कृत्यसूक्ष्मयोगानुज्ञापनाय बहुवेलकरणमुचितमेव । यतः पञ्चवस्तुके "गुरुणाणुण्णायाणं, सव्वं चिय कप्पई उ समणाणं । किच्चं पि जओ काउं, बहुवेलं ते करंति तओ" ॥१॥[प.व./५५३] इति । ततः किं कर्त्तव्यमित्याह -'द्रागि'त्यादि 'द्राग्' समन्तात् न त्वेकपाश्र्वादौ 'सम्यक् च' शास्त्रोक्तविधिना 'प्रत्युपेक्षणा' प्रतिलेखनाकरणं सापेक्षयतिधर्मो भवतीति सम्बन्धः । प्रतिलेखना चात्रोपकरणविषया ज्ञेयेति प्रागुक्तमेव । तत्रापीयं वस्त्रविषया वाच्या, पात्रविषयाया अग्रे वक्ष्यमाणत्वात् । इत्थमेव चोक्तं यतिदिनचर्यायामपि - "पेहिज्ज दिणारंभे, दसगं उग्घाडपोरिसिसमए । पत्ताणं निज्जोगं, सव्वं पुण पच्छिमे जामे" ॥१॥[य.दि./२८७] इति । अत्र मुखपोतिका १ रजोहरण २ निषद्याद्वय ४ चोलपट्ट ५ कल्पत्रिक ८ संस्तारक ९ उत्तरपट्ट १० लक्षणानां दशानां स्थानानां प्रतिलेखना सूर्येऽनुद्गते एव कर्त्तव्या । यतः - "मुहपत्ती रयहरणं, दुन्नि निसज्जा य चोल्ल कप्पतिगं । संथारुत्तरपट्टो, दसपेहाणुग्गए सूरे" ॥१॥ [ य.दि./६०] निशीथचूर्णी कल्पचूर्णौ चैकादशो दण्डोऽप्युक्तः, तत्र प्रतिलेखनाक्रमश्चैवम् – क्षमाश्रमणपूर्वं पडिलेहणं करेमि त्ति भणित्वा प्रतिलिख्य च मुखपोतिकामुत्कुटुकासनस्थ D:\new/d-3.pm53rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy