________________
४९६]
_ [धर्मसंग्रहः-तृतीयोऽधिकारः "इरिअं पडिक्कमंतो, कुसुमिणदुसुमिणनिवारणुस्सग्गं । सम्मं कुणंति निज्जिअपमायणिद्दा महामुणिणो" ॥१॥ [ य.दि./गा.४] पाणिवहप्पमुहाणं, कुसुमिणभावे भवंति उज्जोआ।
चत्तारि चिंतणिज्जा, सनमुक्कारा चउत्थस्स" ॥२॥ [ य.दि./गा.५ ] इति । ततश्च देवगुर्वादिनतिः' इति, देवनतिश्चैत्यवन्दनम् , गुर्वादिनति:-चतुर्भिः क्षमाश्रमणैगुर्वादिनमस्क्रिया, ततोऽनन्तरं च 'स्वाध्यायनिष्ठता' इति स्वाध्यायो -वाचनादिस्तस्मिन् यथासम्भवं निष्ठता -एकाग्रता, उपलक्षणत्वात् पूर्वगृहीततपोनियमाभिग्रहचिन्तनधर्मजागरिकाकरणादि । यतः -
"जिणनमणमुणिणसंमणपुव्वं तत्तो कुणंति सज्झायं । चिंतिति पुव्वगहिरं, तवणियमाभिग्गहप्पमुहं ॥१॥ [ य.दि./गा.६] किं सक्कणिज्जकज्जं, न करेमि ? अभिग्गहो अ को उचिओ?। किं मह खलियं जायं ? कह दिअहा मज्झ वच्चंति ? ॥२॥[ य.दि./गा.७ ] कह न हु पमायपंके, खुप्पिस्सं ! किं परो व अप्पो वा।
मह पिच्छइ अइआरं?, इअ कुज्जा धम्मजागरिअं" ॥३॥[ य.दि./गा.८] ब्राहये च मुहूर्ते निर्मलबुद्ध्युदयाद् भवति धर्मकर्मोपायचिन्तनं सफलमिति धर्ममयमनोरथान् चिन्तयेदिति भावार्थः । यतस्तत्रैव -
"जामिणिविरामसमए, सरए सलिलं व निम्मलं नाणं ।
इअ तत्थ धम्मकम्मे, आयमुवायं विचिंतेज्जा" ॥१॥[य.दि./गा.९] ॥९०॥ साम्प्रतं तत आरभ्योद्घाटपौरुषीं यावद् यत् यत् कर्त्तव्यं तदाह -
काले च कालग्रहणं, ततश्चावश्यकक्रिया ।
द्राक् प्रत्युपेक्षणा सम्यग् , स्वाध्यायश्चाद्यपौरुषीम् ॥११॥ 'काले' यथोक्तवेलायां 'कालस्य' प्रस्तावात् प्राभातिकलक्षणस्य ‘ग्रहणं' निरूपणं सापेक्षयतिधर्मो भवतीति क्रियासमन्वयः । प्राभातिककालस्य च ग्रहणकालो रात्रिचतुर्थप्रहारावशिष्टतुर्यभागरूपः । यतः आर्षम् -
"पोरिसीए चउब्भाए, सेसे वंदित्तु तो गुरुं।। पडिक्कमित्तु कालस्स, कालं तु पडिलेहए" ॥१॥[उत्त.२६।४५ ] इति ।
१. इति-मु० नास्ति ।। २. विगम सि० ॥ ३. वंदिऊण तओ गुरूं-इति उत्तराध्ययने ।।
D:\new/d-3.pm53rd proof