________________
प्रभाते जागरणविधिः-श्लो० ९०॥]
[४९५ 'इत्थं'ति प्रतिदिनक्रियायाम् , तत्र ग्रन्थे दशभिद्धारैः प्रतिदिनक्रियाया एव प्रक्रान्तत्वात् । तथाहि - "पडिलेहणा १ पमज्जण २, भिक्खा ३ ऽऽयरि ४ ऽऽलोअ५ भुंजणा ६ चेव । पत्तगधुवण ७ विआरा ८, थंडिल ९ आवस्सयाईआ १०" ॥१॥
[पञ्चवस्तुके गा. २३०, प्रवचनसारोद्धारे गा. ७६८ ] इत्यलं प्रसङ्गेन ॥८९॥ साम्प्रतं उपकरणविषया प्रतिलेखनाद्योघसामाचारी येन क्रमेण कर्त्तव्या तं क्रममपि दिनचर्यानुरोधेनैव प्रतिपादयन्नाह -
निशान्त्ययामे जागर्या, गुरोश्चावश्यकक्षणे ।
उत्सर्गो देवगुर्वादिनतिः स्वाध्यायनिष्ठता ॥१०॥ निशाया-रात्रेरन्त्ययामे-चतुर्थप्रहरे 'जागर्या' जागरणं निद्रात्याग इत्यर्थः । सापेक्षयतिधर्मो भवतीति योजना, अग्रेऽपि सर्वत्रावसेया । जागरणविधिश्च -
"जामिणिपच्छिमजामे, सव्वे जग्गंति बालवुड्डाई ।
परमिट्ठिपरममंतं, भणंति सत्तट्ठवारा उ" ॥१॥ [ य.दि./गा.३] इत्यादिविशेषगृहस्थधर्माधिकारे प्रदर्शित एव। निशान्त्ययामे जागरणं किमविशेषेण सर्वेषामेव ? उत केषाञ्चिदेव? इति जिज्ञासायामाह -'गुरोः' प्रव्राजकस्य दिगाचार्यादेर्वा, चकारात् ग्लानादेः 'आवश्यकक्षणे' प्रतिक्रमणकरणावसरेजागर्या, तत्र गुरोस्तृतीयप्रहरेऽस्वापस्य वक्ष्यमाणत्वात् ग्लानादेस्तु शरीरमान्द्यात् प्रतिक्रमणवेलायामुचितमेव जागरणम् । उक्तमपि -
"सव्वे वि पढमयामे, दुन्नि अ वसहाण आइमा जामा।
तइओ होइ गुरूणं, चउत्थे सव्वे गुरू सुअइ" ॥१॥[प्र.सा./८६१] इति । प्रतिक्रमणवेला च तत्परिसमाप्तिदशोपकरणप्रत्युपेक्षणासमनन्तरभाविसूर्योदयपरिमेया । यतः -
"आवस्सयस्स समए, णिहामुदं चयंति आयरिआ।
तह तं कुणंति जह दसपडिलेहाणंतरं सूरो" ॥१॥ [य.दि./गा.१३] इति । जागरणानन्तरं कर्त्तव्यमाह -'उत्सर्गः' इति कायोत्सर्गः, सचेर्यापथिकीप्रतिक्रमणपूर्वक: कुस्वप्नदुःस्वप्ननिवारणनिमित्तः, प्राणिवधादिकुस्वप्नभावेशतोच्छवासमानो मैथुनकुस्वप्नभावे तु चतुरुद्योतकरोपर्येकनमस्कारचिन्तनादष्टशतोच्छासमानोऽवसेयः, यतो यतिदिनचर्यायाम् -
१. भिक्खरिआ-इति प्रवचनसारोद्धारे ॥ २. यति' मु० नास्ति ।।
D:\new/d-3.pm53rd proof