________________
४९४]
[ धर्मसंग्रहः - तृतीयोऽधिकारः
प्रतिलेखनिका १ पिण्डो २ पध्य ३ नायतनानि ४ च । प्रतिसेवा ५ ऽऽलोचने ६ च, शुद्धि ७ श्चेत्यौघिकी मता ॥ ८९ ॥
'प्रतिलेखने'ति प्रतिपूर्वक (स्य) लिख - अक्षरविन्यासे इत्यस्य भावे ल्युडन्तस्य प्रयोग:, 'उपसर्गेण धात्वर्थ' इति न्यायादागमानुसारेण क्षेत्रादेर्निरूपणेत्यर्थः । सर्वक्रियाणामेतेत्पूर्वकत्वादियमेव निरूपणीयेति प्रथमं द्वारम् । अस्याश्च प्रतिलेखकप्रतिलेख्यनान्तरीयकत्वात् तद्द्वयमप्यत्रैव निरूपणीयम् १। पिण्डः - सङ्घातः दोषविशुद्धाहार इत्यर्थः, प्रतिलेखनोत्तरं तद्ग्रहणं भवतीति तदनन्तरं स निरूपणीय इति द्वितीयं द्वारम् २। उप –सामीप्येन संयमं दधाति - धारयति पोषयति वेत्युपधिः, स च वस्त्रपात्रादिरूपः, पिण्डो हि न पात्रपात्रबन्धादिकमन्तरेण ग्रहीतुं शक्यत इति तन्निरूपणानन्तरं गणनाप्रमाणप्रमाणप्रमाणद्वारेण निरूपणीयमिति तृतीयं द्वारम् ३ । न आयतनमनायतनं - स्त्रीपशुपण्डकादिसंसक्तम्, गृहीत उपधिः पिण्डश्च न वसतिमन्तरेणोपभोक्तुं शक्यत इति तन्निरूपणानन्तरं (अनायतन) वर्जनप्रतिपक्षायतनसेवनमुखेन तद्वाच्यमिति चतुर्थं द्वारम् ४। प्रतिसेवा – प्रतिसेवना संयमानुष्ठानविरुद्धाचरणमित्यर्थः, प्रतिलेखनाद्यनायतनान्तमाचारं कुर्वतः कदाचित् क्वचित् कश्चिदतिचारो भवतीति तदनन्तरं सा निरूपणीयेति पञ्चमं द्वारम् ५। आ –अपराधमर्यादया लोचनं - दर्शनम् आचार्यादेः पुरत इत्यालोचना प्रतिसेवायां सत्यां साऽवश्यं मुमुक्षुणा कर्त्तव्येति तदनन्तरं सा निरूपणीयेति षष्ठं द्वारम् ६। शोधनं शुद्धिः- शिष्येणालोचितेऽपराधे तदुचितं गुरोः प्रायश्चित्तप्रदानमित्यर्थः, आलोचनोत्तरकालं योग्यं प्रायश्चित्तं प्रदीयत इति तदनन्तरं तदुपन्यास इति सप्तमं द्वारम् ७ | 'इति' अमुना प्रकारेण औघिकी-ओघनिष्पन्ना सामाचारी ओघनिर्युक्तिप्रतिपादितक्रियासमुदाय इत्यर्थः, ‘मता’ प्रतिपादिता द्वारनिर्देशेनेति गम्यम् । ओघनिर्युक्तिरुपौघसामाचार्या इमानि सप्त द्वाणीति तात्पर्यम् १|
अत्र च प्रतिलेखना- प्रतिलेखक - प्रतिलेख्यवक्तव्यताऽतिगहना क्षेत्रादिविषयौघनिर्युक्तौ बहुविधोक्ता । सा च बहुविस्तरत्वान्नेह प्रतन्यते । विस्तरार्थिना तु तत एवावधार्या । इह तु दिनचर्याया एव प्रतिदिनोपयोगित्वादुपकरणविषया सोच्यते, पञ्चवस्तुकेऽपीत्थमेवाभिहिता । यत: -
—
"उवगरणगोअरा पुण, इत्थं पडिलेहणा मुणेअव्वा ।
अप्पडिलेहिअदोसा, विण्णेआ पाणिघायाई ॥१॥ [ प.व./ २३१ ] इति ।
D:\new/d-3.pm5\ 3rd proof