________________
४९२]
[धर्मसंग्रह:-तृतीयोऽधिकारः स्याप्ययोग्यतया गुणस्थानं -संवासानुयोगदानादि, वैद्यज्ञातेन, स हि यद्ये(दै)वासाध्यं दोषं जानाति तदैव क्रियातो विरमतीति सिद्धम् अयोग्यस्य सूत्रं ददतोऽधर्म एवेति । एवमुपधानाशुद्धं अकालप्राप्तमपि च ददतः प्रतीच्छतश्चाप्यधर्म एवेति ज्ञेयमिति ग्रहणाशिक्षाविधिः ॥८७॥ अथासेवनाशिक्षा विधेयतया प्रतिपादयन्नाह -
औघिकी दशधाख्या च, तथा पदविभागयुक् ।
सामाचारी विधेत्युक्ता, तस्याः सम्यक् प्रपालनम् ॥८८॥ 'इति' अमुना वाच्यमानप्रकारेण 'सामाचारी' 'त्रिधा' त्रिभिर्भेदैः 'प्रज्ञप्ता' प्ररूपिता, जिनैरिति शेषः । तत्र सामाचारीति कः शब्दार्थः ?, उच्यते, समाचरणं समाचार: शिष्टाचरितक्रियाकलापस्तस्य भावो "गुणवचनब्राह्मणादिभ्यः कर्मणि ष्यञ्'' [पा० ५।१।१२४] सामाचऱ्या, पुनः स्त्रीत्वविवक्षायां "षिद्गौरादिभ्यश्च" [पा० ४।१।४१] इति ङीष् , “यस्य" [पा० ६।४।१४८] इत्यकारलोपः, “यस्य हलः" [पा०६।४।४१] इति तद्धितयलोपः, परगमने सामाचारीति सिद्धम् ।
- [इयं च नयविभागेन विविच्यमाना सप्तधा भिद्यते, तथाहि-सङ्ग्रहमते आत्मा सामाचारी, न त्वनात्मा, आत्मनि विशेष्ये सकलसामाचारीविशेषणात् । व्यवहारमते च तां समाचरन्नात्मा सामाचारी, न त्वसमाचरन् , असमाचारवत्यात्मन्यतिप्रसक्तेः । ऋजुमते च समाचरन्नप्युपयुक्तः सामाचारी न त्वनुपयुक्तः, व्यवहारसमाचरणशालिनि द्रव्यलिङ्गिन्यतिप्रसक्तेः। उपयुक्तो नाम ज्ञेयप्रत्याख्येयपरिज्ञापर इत्यर्थः । शब्दमते च उपयुक्तोऽपि षट्सु संयत:सामाचारी न त्वसुसंयतः, सामाचारीपरिणामप्राप्तानामविरतसम्यग्दृष्ट्यादीनामपि तथाप्रायत्वेन तत्रातिप्रसक्तेः । समभिरूढमते च सुसंयतोऽपि पञ्चसमितस्त्रिगुप्तः सामाचारी, न तु तद्विलक्षणः, प्रमत्तसंयतादिष्वप्यतिप्रसक्तेः । एवम्भूतमते च प्रागुक्तसकलविशेषणविशिष्टो सावद्ययोगविरत: सामाचारी, तत्र "सावज्जो कम्मबंधो" [ ] त्ति चूर्णिकारवचनात् सावद्य:-कर्मबन्धस्तेन सह योगो-वीर्यं ततो विरत: परिज्ञाततत्क इत्यर्थः । न त्वनीहक्, तथाभावं प्राप्तानामप्रमत्तादीनामपि तत्फलासिद्धः, अस्य च कुर्वद्रूपस्यैव कारणस्याभ्युपगमात् । नैगमस्य मते पुनः शुद्धाशुद्धरूपत्वात् सकलविशेषणविशिष्टो
१. यद्येवा P.C. । यदैवा० पञ्चवस्तुटीका ॥ २. उक्ता प्ररूपिता-मु० ॥ ३. यस्येति च इत्य० मु० ॥ ४. सामाचारी-मु० नास्ति । ५. प्रतिज्ञाततत्क:-P. ॥ ६. विशेषण मु० C. नास्ति ।
D:\new/d-3.pm5\3rd proof