SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ग्रहणाशिक्षास्वरूपम् -श्लो० ८७॥] [४८९ "तीआणागयकाले, केई होहिंति गोअमा ! सूरी । जेसिं णामग्गहणे, हुज्जा णिअमेण पच्छित्तं" ॥१॥ [म.नि.] इति । तस्माद् भावगुरुकुलवास एव मुख्यो यतिधर्म इत्यलं विस्तरेण ॥८६॥ अत्र च गुर्वन्तेवासिताया: शिक्षा प्रयोजनमुक्तम् , अथ तां द्विविधामपि प्रतिपिपादयिषुः प्रथमं ग्रहणाशिक्षा सूत्रदानविधिमुखेन प्रतिपादयन्नाह - विशुद्धमुपधानेन, प्राप्तं कालक्रमेण च । योग्याय गुरुणा सूत्रं, सम्यग् देयं महात्मना ॥८७॥ उपधानम-आचाम्लादितपो यद्यस्याध्ययनादे: सत्रे प्रतिपादितं तेन विशद्धं निर्दोषं 'च:' समुच्चये 'कालक्रमेण' सूत्रोक्तपर्यायपरिपाट्या ‘प्राप्तम्' औचित्यमायातं न तूत्क्रमेण, सूत्रम्' आवश्यकादि ‘महात्मना' अस्खलितशीलेनेत्यर्थः 'गुरुणा' प्रव्राजकेन 'योग्याय' सूत्रदानं प्रति योग्यशिष्याय 'सम्यग्' आज्ञामाश्रित्य देयम्' इति सापेक्षयतिधर्मो भवतीति सम्बन्धः । अत्र चोपधानविशुद्धमित्यनेन उपधानवहनं विना श्राद्धस्य योगोद्वहनं विना च साधोः स्वस्वोचितश्रुताध्ययनवाचनादिकमधर्म इति-स्थितम् । योगाक्षराणि चैतानि - ___“तिहिं ठाणेहिं संपन्ने अणगारे अणाइअं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं वितिवएज्जा, तं जहा-अणिदाणयाए, दिट्ठिसंपन्नयाए, जोगवाहित्ताए" इति स्थानाङ्गतृतीयस्थाने [ ]। तथा “दसहिं ठाणेहिं जीवा आगमेसिभद्दगत्ताए कम्मं पकरेंति, तंजहा-अणिदाणयाए, दिट्ठीसंपन्नयाए, जोगवाहित्ताए, खंतिखमणयाए, जिइंदिअत्ताए, अमाइल्लयाए, अपासत्थयाए, सुसामन्नत्ताए, पवयणवच्छल्लयाए, पवयणउब्भावणयाए" इति स्थानाङ्गदशमस्थाने [ ]।। तथा-"णीयावित्ती अचवले, अमाई अकुऊहले। विणीअविणए दंते, जोगवं उवहाणवं"॥१॥[ गा.२७] इति चतुस्त्रिंशोत्तराध्ययने तथा-"पयणुकोहमाणे अ, मायालोभपयणुए। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं" ॥१॥[गा.२९] इत्येकादशोत्तराध्ययने तथा–“अणिस्सिओवहाणे"त्ति समवाया) द्वात्रिंशद्योगसंग्रहाधिकारे । तथा – "नाणं पंचविहं पन्नत्तं, तंजहा-आभिणिबोहिअनाणं जाव केवलनाणं, तत्थ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy