________________
४८८]
[धर्मसंग्रहः-तृतीयोऽधिकारः "बकुलकुसीला तित्थं, दोसलवा तेसु निअमसंभविणो ।
जइ तेहिं वज्जणिज्जो अवज्जणिज्जो तओ णत्थि" ॥१॥[ध.र./१३५ ] अत एव गाढप्रमादवतोऽपि पन्थकेन शैलकस्य परिचर्या न त्यक्ता, तदुक्तं तत्रैव - "मूलगुणसंपउत्तो, न दोसलवजोगओ इमो होइ( हेओ)। महुरोवक्कमओ पुण, पवत्तिअव्वो जहुत्तंमि ॥१॥[ध.र./१३१] पत्तो सुसीससद्दो, एव कुणंतेण पंथगेणावि ।
गाढप्पमाइणो वि हु , सेलगसूरिस्ससीसेणं" ॥२॥[ध.र./१३२] मूलगुणवत्त्वं च तस्याक्षतमेव । सूत्रे शय्यातरपिण्डभोजित्वादिनैव पार्श्वस्थत्वादिव्यपदेशाच्छिथिलत्वपरित्यागे चाभ्युद्यतविहारस्यैवोपवर्णनात् , छेदमूलादिप्रायश्चित्तानुपदेशात् , अभ्युद्यतविहारिभिरेकोनपञ्चशतश्रमणैः पन्थकस्य तद्वैयावृत्त्यकरत्वेन स्थापितत्वाच्च, कथमन्यथाऽसाधुवैयावृत्त्ये साधुभिर्नियुज्यतेत्यादिसूक्ष्मबुद्ध्या चिन्तनीयम् ।
इत्थमपि च गुरुकुलवासो न नाममात्रगुरुसेवनया सत्यापितो भवति, निक्षेपचतुष्टये भावनिक्षेपस्यैव स्वातन्त्र्येण सूत्रे ग्रहणात् , अन्यथा स्वाभिप्रायाभिमतगुरुनामकारिणां सर्वेषामपि गुरुकुलवासप्रसक्तेः, न चैतदिष्टम् , धर्माधर्मसङ्करप्रसङ्गात् , अत्र चेदं सूत्रं महानिशीथे -"से भयवं ! तित्थयरसंति आणं नाइक्कमिज्जा उदाहु आयरियसंतिअं? गोयमा ! चउव्विहा आयरिआ पन्नत्ता, तंजहा-नामायरिया ठवणायरिया दव्वायरिया भावायरिया, तत्थ णं जे ते भावायरिया ते तित्थयरसमा चेव दट्ठव्वा, तेसिं संति आणं नाइक्कमिज्जा, सेसा निज्जूहिअव्वा" ॥[म.नि.४।१२] तथा गच्छाचारप्रकीर्णकेऽपि -
"तित्थयरसमो सूरी, सम्मं जो जिणमयं पयासेइ ।
आणं च अइक्कंतो, सो कापुरिसो ण सप्पुरिसो" ॥१॥ [ग.प्र./२७] अयं भावः-शुद्धभावगुरूणां नामादीनि त्रीण्यपि पापहराणि, शुद्धभावगुरुनामादीनां शुद्धभावगुरूपस्थापनाद्वारा शुद्धभावगुरुसम्बन्धित्वेन ज्ञातानां तेषां स्वातन्त्र्येणैव वा शुद्धभावजनकत्वात् । “महाफलं तहारूवाणं थेराणं भगवंताणं णामगोत्तस्स वि सवणयाए" [ ] इत्याद्यागमात् , अशुद्धभावगुरोश्च नामादीनि त्रीण्यपि पापकराणि, अशुद्धभावजनकत्वात् तेषाम् । अत एवेदं महानिशीथे प्रसिद्धं
१. C.P. धर्मरत्नप्र० । लेहि-मु० ॥ २. हेओ-धर्मरत्नप्र० । 'हेयः परित्याज्य"-इति तत्रैव वृत्तौ ॥
D:\new/d-3.pm5\3rd proof