________________
४८६]
[धर्मसंग्रह:-तृतीयोऽधिकारः साधुः, यावज्जीवं गुरुकुलवासी स्यादित्यर्थः । गुरोरन्तिकेऽनुषितः-अव्यवस्थितः स्वच्छन्दचारी कर्मणोऽनन्तकर:-अन्तकारी न स्यात् इति ज्ञात्वा, गुरुं सेवते, तद्रहितस्य विज्ञानमुपहास्यं भवेदितः 'द्रव्यस्य' मुक्तियोग्यस्य साधोः 'वृत्तम्' अनुष्ठानम् 'उद्भासयन्' (प्रकाशयन् अनुष्ठानेन) 'न निष्कसेत्' गच्छाबहिर्न निर्गच्छेत् , आशुप्रज्ञःपण्डितः" । एतेन बाह्यवृत्त्या नाम्ना गुरुकुलवासं वदन्तः सम्यग्गुरुकुलवासमसेवमानाः प्रत्युक्ता द्रष्टव्याः, यावज्जीवं तच्छिष्यभावस्यैव महाफलत्वात् । पठ्यते च - "णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ। धण्णा आवकहाए गुरुकुलवासं न मुंचंति" ॥१॥[वि.भा./३४५९]
अत एव सकलाचारस्य मूलभूतो गुरुकुलवासः सुधर्मस्वामिना जम्बूस्वामिनमुद्दिश्य "सुअं मे आउसंतेणं भगवया एवमक्खायं" [आचाराङ्गे, सू० १] इत्यादिना प्रज्ञप्तः । भावयतेश्च परमं लिङ्गमिदमेव । यत उपदेशपदे - "एअं च अस्थि लक्खणमिमस्स नीसेसमेव धम्मस्स। तह गुरुआणासंपाडणं च गमगं इहं लिंग" ॥१॥[उ.प./२००] इति ।
[एतद्गुणयोगादेव माषतुषादीनां चारित्रं पञ्चाशके उपदिष्टम् । तथा च तद्गाथा"गुरुपारतंतनाणं सद्दहणं एअसंगयं चेव । इत्तो उ चरित्तीणं मासतुसाईण णिद्दिटुं" ॥१॥[पञ्चा.११७] इति]
अत्र प्रसङ्गतो धर्मरत्नप्रकरणोक्तानि भावयतिलिङ्गानि प्रदर्श्यन्ते । तथाहि - "एअस्स उ लिंगाई, सयला मग्गाणुसारिणी किरिआ १ ।
सद्धा पवरा धम्मे २, पन्नवणिज्जतमुजुभावा ३ ॥१॥[ध.र./७८ ] किरिआसु अप्पमाओ ४, आरंभो सक्कणिज्जणुट्ठाणे ५। गुरुओ गुणाणुरागो ६, गुरुआणाराहणं परमं ७" ॥२॥[ध.र./७९ ] इति ।
मार्गानुसारिणी क्रियेति -आगमनीत्या बहुसंविग्नाचरणया वाऽऽचरणम् । यतः - "मग्गो आगमणीई, अहवा संविग्गबहुजणाइण्णं । उभयाणुसारिणी जा, सा मग्गणुसारिणी किरिआ" ॥१॥[ध.र./८०]
शेषं सुगमम् । प्रवरश्रद्धालक्षणानि चत्वारि । यथा -
१. P.C. उपदेशपदे । एअं अ (तु) अत्थि० मु० ॥ २. धन्नस्स-उपदेशपदे । धन्यस्य धर्मधनार्हस्य इति उपदेशपदवृत्तौ ॥ ३. एणो-मु० ।।
D:\new/d-3.pm53rd proof