________________
यतिधर्मः -श्लो० ८६॥]
[ ४८५
गुरुगच्छादिसाहाय्यमपेक्षमाणो यः प्रव्रज्यां परिपालयति स सापेक्षः । इतरस्तु निरपेक्षों यतिर्गच्छाद्यपेक्षारहित इत्यर्थः । तयोर्धर्मोऽपि क्रमेण गच्छवासलक्षणो जीतकल्पादिलक्षणश्च सापेक्षो निरपेक्षश्चोच्यते, धर्मधर्मिणोरभेदोपचारात् । 'तत्र' तयोः सापेक्षनिरपेक्षयतिधर्मयोर्मध्यात् अयं सापेक्षयतिधर्मो भवतीति क्रियासम्बन्धः । योज्यम्, स च यथा 'शिक्षायै' इत्यादि, शिक्षा - अभ्यासः सा द्विधा - ग्रहणशिक्षा आसेवनाशिक्षा च । तत्र ग्रहणशिक्षा - प्रतिदिनसूत्रार्थग्रहणाभ्यासः, आसेवनाशिक्षा प्रतिदिनक्रियाभ्यासः, तस्यै - तदर्थं न तूदरपूर्त्याद्यर्थमिति भावः । गुरोः - प्रव्राजकाचार्यस्य अन्तेवासिता - शिष्यभावः, सा च कादाचित्की अपि स्याद् इत्यत आह'अन्वहं' प्रतिदिनं यावज्जीवमित्यर्थः । अत्र अन्ते - समीपे वसतीतियोगाश्रयणेन सहवास-सहभोजन-सहशयन - सहप्रतिक्रमण - सहग्रामान्तरगमनादिरूपा महाभाष्योक्ता द्रष्टव्या । पारमर्षेऽप्युक्तम्
1
" [ तद्दिट्ठीए तम्मोत्तीए तप्पुरक्कारे] तस्सण्णी तण्णिवेसणे जयंविहारी चित्तणिवाई पंथणिज्झाई पलिबाहिरे पासिय पाणे गच्छेज्जा" [ ] इत्यादि ।
[व्याख्या –तस्य –गुरोर्दृष्टिस्तया वर्त्तितव्यं हेयोपादेयेषु, तेनोक्ता सर्वसङ्गेभ्यो विरतिर्मुक्तिस्तया सदा यतितव्यम्, तस्याचार्यस्य पुरस्कारः - सर्वकार्येष्वग्रत: स्थापनं तद्विषये यतितव्यम्, तथा तस्याचार्यस्य संज्ञा - ज्ञानं तद्वान् सर्वकार्येषु स्यात्, न स्वमतिविरचितया कार्यं कुर्यात्, तस्य गुरोः निवेशनं - स्थानं यस्यासौ तन्निवेशनः सदा गुरुकुलवासी स्यात्, तत्र च गुरुकुले वसन् किम्भूतः स्याद् ? इत्याह-यतनाविहरणशील इति । तथा चित्तम् - आचार्याभिप्रायस्तेन निपतितुं - क्रियायां प्रवर्त्तितुं शीलमस्येति चित्तनिपाती, पन्थानं गुरोः क्वचिद्गतस्य निर्ध्यातुं - प्रलोकितुं शीलमस्येति पन्थनिर्ध्यायी । उपलक्षणं चैतत् - शिशयिषोः संस्तारकप्रलोकी, बुभुक्षोराहारान्वेषी, इत्यादिना गुरोराराधकः स्यात् किञ्च परि:- समन्ताद् गुरोरवग्रहात् पुरतः पृष्ठतोऽवस्थानं कार्यमृते बाह्यः स्यात् । तथा क्वचित् कार्यादौ गुरुणा प्रेषितो दृष्ट्वा प्राणिनो गच्छेदिति ।] तथा -
"ओसाणमिच्छे मणुए समाहिं, अणोसिएऽणंतकरे त्ति णच्चा ।
ओभासए ता दविअस्स वित्तं, ण णिक्कसे बहिआ आसुन्ने" ॥१॥ [ सूय. १४।४१ ] 'अवसानं' गुरोरन्तिकं स्थितः, 'समाधि' सन्मार्गानुष्ठानरूपाम् 'इच्छेत्' 'मनुजः '
D:\new/d-3.pm5\3rd proof