________________
४८४]
[धर्मसंग्रह:-तृतीयोऽधिकारः यदनिच्छा: केवलिनो भणिताः, न चैवं प्रव्रज्याग्रहणकालेऽपि मुक्तिविषयेच्छा न स्यादिति वाच्यम् , तस्याः प्रशस्तत्वेनाप्रतिकुष्टत्वात् । सैव हि सामायिकसंयतानुष्ठानरूपेणाभ्यस्यमाना हेतुर्जायतेऽनिच्छभावस्य । प्राथमिकं हि वैराग्यं विषयवैतृष्ण्यरूपं मुक्तीच्छां न विरुणद्धि । द्वितीयं त्वनिच्छभाव एव, अध्यात्मशुद्धिपरिपाकादिति । तदाहुर्योगाचार्याः- “तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यम्" [पातञ्जल० १।१६] इति प्रणीतं च भगवता गौतमपृष्टेन मासादिवर्षान्तपर्यायक्रमे व्यन्तरादीनां तेजोलेश्याद्यतिक्रमः ततश्च शुक्लशुक्लाभिजात्यभावभजनेन सर्वोत्तमस्थानलाभ: तेजोलेश्या सुखासिका शुक्लः कर्मणा शुक्लाभिजात्य आशयेनेति । ततश्च प्रवर्द्धमानशुक्ललेश्यत्वान्निरभिष्वङ्गत्वात् साधूनामेव पारमार्थिकं सुखमिति, गृहादित्यागस्तेषां पुण्यविपाकमेवानुमापयति न तु पापमिति स्थितिम् । आलापकश्चायम् - ___"जे इमे अज्जत्ताए समणा निग्गंथा विहरंति ते णं कस्स तेउलेसं वीइवयंति ?, मासपरिआए समणे निग्गंथे वाणमंतराणं देवाणं तेउलेस्सं वीइवयंति । एवं दुमासपरिआए असुरिंदवज्जिआणं भवणवासिदेवाणं । तिमासपरिआए असुरकुमाराणं, चउमासपरिआए गहणक्खत्तताराणं जोइसिअदेवाणं, पंचमासपरिआए चंदिमसूरिआणं जोइसिआणं जोईसराणं, छम्मासपरिआए सोहम्मीसाणदेवाणं, सत्तमासपरिआए सणंकुमारमाहिंदाणं देवाणं, अट्ठमासपरिआए बंभलंतगाणं देवाणं, णवमासपरिआए महासुक्कसहस्साराणं देवाणं, दसमासपरिआए आणयपाणयआरणअच्चुआणं देवाणं, इगारसमासपरिआए गेविज्जाणं देवाणं, बारसमासपरिआए अणुत्तरोववाइआणं देवाणं तेउल्लेस्सं वीइवयइ, तेण परं सुक्के सुक्काभिजाई भवित्ता तओ पच्छा सिज्झइ बुज्झइ परिणिव्वा [अ]इ सव्वदुक्खाणमंतं करेइ" [भगवतीसूत्रे १४/९/५३७] ॥८५॥ इत्युक्तो यतिः, अधुनाऽस्य धर्ममनुवर्णयन्नाह -
सापेक्षो निरपेक्षश्च, यतिधर्मो द्विधा मतः ।
सापेक्षस्तत्र शिक्षायै, गुर्वन्तेवासिताऽन्वहम् ॥८६॥ 'यतिधर्म' उक्तलक्षणमुनिसम्बध्यनुष्ठानविशेषो 'द्विधा' द्वाभ्यां प्रकाराभ्याम् , 'मतः' प्ररूपितो जिनैरितिशेषः । द्वैविध्यमेवाह –'सापेक्षो निरपेक्षश्च' इति, तत्र
१. बुज्झइ-मु० नास्ति ।
D:\new/d-3.pm5\3rd proof