________________
यतिस्वरूपम् -श्लो० ८४-८५॥]
[४८३ न च निश्चयव्यवहारकार्ययोर्मुक्तिलक्षणं कार्यं प्रति साक्षात्परम्पराकारणतयाऽभ्यर्हितत्वानभ्यर्हितत्वाभ्यां विशेषः । निश्चयकार्यस्य व्यापारतया व्यवहारकार्यस्य साक्षाद्धेतुताया अविरोधादभ्यर्हितत्वाक्षि(क्ष)तेः। वदन्ति हितान्त्रिका: -"न हिव्यापारेण व्यापारिणोऽन्यथासिद्धिः"[ ] इति। न चासति विरतिपरिणामे चैत्यवन्दादिविधिसम्पादने मृषावादोऽपि गुरोः । भगवदाज्ञासम्पादनेन त्वं प्रव्रजितोऽसीत्यादिव्यवहारसत्यवचनस्याक्षतत्वात् । एतदकरणे तीर्थोच्छेदादयो दोषाः । परिणामस्य सिद्ध्यसिद्धिभ्यां व्याघातात्। आहत्यभरतादिभावकथनं चाशास्त्रार्थम् , अन्ये त्वगारवासं पापात् परित्यजन्तीति वदन्ति । यतः -
"शीतोदकादिभोगमदत्तदाना इति न कुर्वते । बहुःदुःखप्राप्तोऽप्यर्थोऽभव्यानामिव पुण्यप्राप्तोऽपि गृहवासः पापानां नश्यतीति त्यक्तगृहवासाः । अवकाशविवर्जिताः, क्षुत्तृट्परिवर्जिताः, कथं न पापाक्रान्तास्ते ?, कथं च तादृशानां सर्वविहीनानां शुभध्यानम् ?, तद्विना च कथं धर्म ? इति, तस्माद्गृहाश्रमरत एव सन्तुष्टमनाः परहितकरणैकरतिर्द्धर्मं साधयति मध्यस्थः" [ ] इति ।
ते प्रष्टव्याः, किं ‘पापस्य स्वलक्षणम्' ? सङ्क्लिष्टवेदनमिति चेद् ? अर्थोपार्जनादौ गृहिणामेव तत् प्राप्तम् । वदन्ति च - "अर्थानामर्जने दुःखमर्जितानां च रक्षणे।
आये दुःखं व्यये दुःखं, धिगर्थोऽनर्थभाजनम्" ॥१॥[ ] इति । ___ मुनिनां तु गृहादिहीनानामपि सर्वथा निरभिष्वङ्गाणामार्तध्यानविकल्पाभावात् कुत्र दुःखम् ?, कुत्र च सक्लिष्टवेदनं नाम ?, न च दुःखहेतोः क्रियाकष्टस्य सद्भावाद्दुःखोत्पत्तिध्रौव्यम् , गुरुतरप्रापकत्वेन शुभाध्यवसायेनारतिलेशस्याप्ययोगात् , तस्य दुःखहेतूनां सुखहेतुतया परिणमनात् , गृहिणामेव हि ‘कदा विषममिदं कार्यं सेत्स्यति? को वाऽयं समयः ? कथं वा राजादिभ्यो गोपयामि ?' इत्यादि-चिन्ताभारग्रस्तानां दुःखम् , न तु विषयविरक्तानां मुनीनाम् , अनुभवसिद्धसुखस्यैव तैः संवेदनात् । मन:परितोषे बाह्यसम्पत्तेरकिञ्चित्करत्वाद् । आह च - "वयमिह परितुष्टा वल्कलैस्त्वं दुकूलैः, सम इह परितोषे निर्विशेषो विशेषः । सहिभवति दरिद्रो यस्य तृष्णा विशाला,मनसि चपरितुष्टेकोऽर्थवान् ? को दरिद्रः?"॥१॥
न च काङ्क्षितार्थसम्पत्त्यभावाद् दुःखम् , इच्छाविनिवृत्तेरेव प्रकर्षप्राप्तफलत्वात् , १. वृत्तेरि(रे)व मु०॥
D:\new/d-3.pm5\3rd proof