________________
४८२]
[धर्मसंग्रह:-तृतीयोऽधिकारः इत्यादिकां देशनां विधत्ते । आयंबिलाइ जहासत्तीए तवो कायव्वो । एवं च गृहीतप्रव्रज्यो यतिरुच्यत इति पर्यवसन्नम् । तथा च धर्मबिन्दुः -
"एवं यः शुद्धयोगेन, परित्यज्य गृहाश्रमम् ।
संयमे रमते नित्यं, स यतिः परिकीर्तितः" ॥१॥[ध.बि.४।२२] इति । ननु विरतिपरिणामो भावतः प्रव्रज्येति जिनोपदेशस्तत्रैव निर्भरः (प्रयत्नः) कर्तव्यः । किमनेन चैत्यवन्दनादिक्रियाकलापेन ?, श्रूयते तमन्तरेणापि भरतादीनां विरतिपरिणामः, अन्यथा केवलानुत्पत्तिप्रसङ्गात् । न च सम्पादितेऽपि तस्मिन् तत्परिणामो भवति, अभव्यानामप्यनेन विधिना प्रव्रज्याग्रहणश्रवणात् । इत्यन्वयव्यतिरेकव्यभिचाराभ्यां न युक्तं चैत्यवन्दनादि इति चेत् , मैवम् , प्रायो विरतिपरिणामहेतुत्वेन तदुपादानात् , न ह्येतावद्विधिसम्पत्तिमानकार्य प्रायः सेवमानो दृश्यते, तेन कार्येण कारणमनुमीयते इति, न चोक्तव्यभिचारो दोषाय, तस्य कादाचित्कत्वात् , तथा च कदाचिद् दण्डं विनापि हस्तादिनैव चक्रभ्रमणाद् घटोत्पादेऽपि घटं प्रति दण्डस्येव व्यवहारं विनापि पूर्वाभ्यस्तकरणानां तथाभव्यत्वपरिपाकवतां भरतादीनां कदाचिद्विरतिपरिणामोत्पादेऽपि तं प्रति व्यवहारस्य न हेतुताक्षतिः, द्वारस्यान्यत एव सिद्धेः, स्वप्रयोज्यद्वारसम्बन्धेनैव च हेतुत्वाद् , अभव्यानां च बाह्यव्यवहारसत्त्वेऽपि विरतिपरिणामानुत्पादो न दोषाय, अन्तकरणासत्त्वात् , सामग्रया एव कार्यजनकत्वाद् , अविवेकमूलव्यभिचारदर्शनस्य विवेकिनामविश्वासजनकत्वात् । तादृशाविश्वासस्य महानर्थनिमित्तत्वादिति भावः । यत उक्तमावश्यके
"पत्तेअबुद्धकर( ह)णे, चरणं णासंति जिणवरिंदाणं ।
आहच्चभावकहणे, पंचहि ठाणेहिं पासत्था" ॥१॥ [आ.नि./११५१] ‘पञ्चहिं'ति प्राणातिपातादिभिरिति । तस्माद् व्यवहारनयादेशाच्चैत्यवन्दनादि(विधि)रुपवर्ण्यमानो युक्त एव । व्यवहारनिश्चययोर्द्वयोरेव तुल्यताया एव सूत्रे भणनात् । तदुक्तम् -
"जइ जिणमयं पवज्जह, ता मा ववहारणिच्छए मुअह।
ववहारणउच्छेए, तित्थुच्छेओ जओऽवस्सं" ॥१॥[ प.व./गा.१७२ ] व्यवहारप्रवृत्त्या हि चैत्यवन्दनादिविधिना प्रव्रजितोऽहमित्यादिलक्षणया शुभपरिणामो भवति, ततः कर्मक्षयोपशमादिः, ततश्च निश्चयनयसम्मतो विरतिपरिणाम इति द्वयोरपितुल्यत्वम् ।
१. ए (णयमयं) मुयह-मु० ॥
D:\new/d-3.pm5\3rd proof