________________
४८०]
[धर्मसंग्रह:-तृतीयोऽधिकारः दिक्शुद्धिश्च प्रशस्तदिगादिरूपा । यथा -
"पुव्वाभिमुहो उत्तरमुहो व, देज्जाऽहवा पडिच्छेज्जा।
जाए जिणादओवा, दिसाइ जिणचेइआइंवा" ॥१॥[वि.भा./३४०५ ]इति। दद्यात् गुरुः अथवा प्रतीच्छेत् शिष्यः, यस्यां जिनादयो वा दिशि, जिना-मन:पर्यायज्ञान्यादिका जिनचैत्यानि वा यस्यां दिशीत्यस्या अर्थलेशः ।
क्षेत्रादिशुद्ध्या च सामायिकाद्यारोपणे प्रागसन्नपि जायते तत्परिणामः, संश्च स्थिरीभवति, अन्यथा तु आज्ञाभङ्गादयो दोषा एव । यतः पञ्चवस्तुप्रकरणे -
"एसा जिणाणमाणा, खेत्ताईआ य कंमुणो हुंति ।
उदयाइकारणं जं, तम्हा एएसु जइअव्वं" ॥१॥[ प.व./गा.११४] इति । ततः प्रविव्रजिषुर्जिनानां पूजां साधूनामपि वस्त्रादिना करोति । ततो गुरुरनुष्ठानविधि करोति । यतस्तत्रैवोक्तम् -
"तत्तो अ जहाविहवं, पूअं स करेज्ज वीअरागाणं ।
साहूण य उवउत्तो, एअंच विहिं गुरू कुणइ" ॥१॥[प.व./गा.१२४] इति । सचविधि: सामाचारीपाठेन प्रदर्श्यते, तथाहि-प्रशस्तदिवसेकृतविशिष्टनेपथ्यः समृद्ध्या गृहादागत्य जिनभवनप्रवेशसमयेऽक्षतभृताञ्जलिः प्रदक्षिणात्रिकंजिनभवनस्यसमवसरणस्य च ददाति।ततो गुरुः शिरोमुखहन्नाभिअधोगात्राणि आरोहावरोहारोहक्रमेण क्षिपओं स्वाहा हास्वाओं पक्षिक्षिपओं स्वाहा' इत्येतैरक्षरैर्दक्षिणकरानामिकयास्पृशन् प्रथमं स्वस्यात्मरक्षा कृत्वा ततः शिष्यस्यापि करोति।तत आचार्योपाध्यायौ स्वमन्त्रेण, तदन्यस्तुवर्द्धमानविद्यया कृतोत्तरासङ्गमुखकोशजानुस्थभव्यश्राद्धकरयुगविधृतगन्धभाजनस्थान्गन्धानभिमन्त्रयते । तथाऽनामिकाङ्गल्या प्रथमंमध्ये न्यसन् दक्षिणावर्तं तदुपरिस्वस्तिकंतन्मध्ये प्रणवंतत ऐन्छा वारुण्यन्तम् ,कौबेर्या याम्यन्तम् ,ऐशान्या नैर्ऋत्यन्तम् ,आग्नेय्या वायव्यन्तंच यावद्रेखाचतुष्टयेनाष्टारंचक्रंकृत्वामध्ये मूलेबीजंत्रिवेष्टितंबीजंक्रौकारान्तंलिखेत् ,ऐन्छांदिशिमूलात् बीजाक्षराभिमुखं मन्त्राक्षराणि चिन्तयेत् ,औं ही नमो अरिहंताणमिति प्रथमपरमेष्ठिपदंतत्र स्थापयेत्।एवंयावत्पश्चिमायांऔंहीनमोलोएसव्वसाहूणमिति,वायव्यांऔंही नमोनाणस्स, कौबेर्यां औं ही नमो दंसणस्स, ऐशान्यांऔं नमो चारित्तस्स, एवंमनसैवस्थापयेत् ।ततः स्वमन्त्रं स्मरन् सप्तभिर्मुद्राभिर्वासान् स्पृशेत् । यथा -
"पंचपरमेट्ठिमुद्दा १ सुरहिय २ सोहग्ग ३ गरुड ४ पउमा य ५ । मुग्गर ६ करायसित्ता ७ कायव्वा गंधदाणंमि" ॥१॥ इति ।
D:\new/d-3.pm5\3rd proof