SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रव्रजनोपायाः, प्रव्रज्याविधिश्च -श्लो० ८४-८५॥] [४७९ ऽपथ्यमासेवमानोऽप्रपन्नादधिकं शीघ्रम् च विनाशमाप्नोति, एवमेव भावक्रियां संयमरूपां कर्मव्याधिक्षयनिमित्तं प्रपद्य पश्चादसंयमापथ्यसेवी अधिकं कर्म समुपार्जयतीति । एवं तस्य साध्वाचार: कथनीय इति । एवं कथितेऽपि साध्वाचारे निपुणमसौ परीक्षणीयः । यतः - "असत्याः सत्यसङ्काशाः, सत्याश्चासत्यसन्निभाः । दृश्यन्ते विविधा भावास्तस्माद्युक्तम् परीक्षणम् ॥१॥[ ] अतथ्यान्यपि तथ्यानि, दर्शयन्त्यतिकौशलाः । चित्रे निम्नोन्नतानीव, चित्रकर्मविदो जनाः" ॥२॥[ ] परीक्षा च सम्यक्त्वज्ञानचारित्रपरिणतिविषया तैस्तैरुपायैविधेया । परीक्षाकालश्च प्रायतः षण्मासाः, तथाविधपात्रापेक्षया तु अल्पो बहुश्च स्यात् । यतः - "अब्भुवगयं पि संतं, पुणो परिक्खेज्ज पव्वयणविहीए। छम्मासं जाऽऽसज्ज व, पत्तं अद्धाए अप्पबहुं" ॥१॥[प.व./गा.१२२] इति । तथा सामायिकसूत्रम् अकृतोपधानस्यापि कण्ठतो न तु प्रथममेव पट्टिकालिखितेन वितरणीयम् , अन्यदपि सूत्रमीर्यापथिक्यादि पात्रं ज्ञात्वा अध्यापयितव्यम् । तथा चैत्यनुतिर्देववन्दनम् , आदिशब्दाद्वासक्षेपरजोहरणसमर्पणकायोत्सर्गकरणादिसकलानष्ठानग्रहः । तच्चानष्ठानं सामाचारीतो ज्ञेयम, तत्पाठश्चानपदमेव वक्ष्यते । अत्र च पूर्वं समुपस्थितस्य शिष्यस्यानुग्रहबुद्ध्या गुरुणाऽभ्युपगमः कार्यः । ततः शुभशकुनादीनां निश्चयनं कार्यम् , निमित्तशुद्धः प्रधानविधित्वात् , ततोऽपि क्षेत्रकालदिशां शुद्धिराश्रयणीया, तत्र क्षेत्रशुद्धिरिक्षुवनादिरूपा । यथोक्तम् - "उच्छुवणे सालिवणे, पउमसरे कुसुमिए व वणसंडे। गंभीरसाणुणाए, पयाहिणजले जिणहरे वा" ॥१॥[वि.भा./३४०४] कालशुद्धिश्च विशिष्टतिथिनक्षत्रादियोगरूपा गणिविद्यानामप्रकीर्णकनिरूपिता । यतस्तत्र पठ्यते - "चाउद्दसिं पन्नरसिं, वज्जेज्जा अट्टमिं च नवमिं च । छट्टिं च चउत्थि बारसिं च दोण्हं पि पक्खाणं ॥१॥[ग.वि./७] तिहिँ उत्तराहिँ तह रोहिणीहिँ कुज्जा उ सेहनिक्खमणं । गणिवायए अणुण्णा , महव्वयाणं च आहर( रोह)णा" ॥२॥[ग.वि./२६] इत्यादि । १. पञ्चवस्तुके १११/११२ गाथा ॥ २. सेसासु दिज्जाहि प०व० ॥ D:\new/d-3.pm53rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy