________________
प्रव्रजनोपायाः, प्रव्रज्याविधिश्च -श्लो० ८४-८५॥]
[४७७ मनुजानीते इति । विपर्ययलिङ्गानि तेषु स्वयमेवाऽबुध्यमानेषु किं कृत्यम् ? इत्याह - “दैवज्ञैस्तथा तथा निवेदनमिति" [४।२९] दैवज्ञैः -निमित्तशास्त्रपाठकैस्तथा तथा – तेन तेन निमित्तशास्त्रपाठादिरूपेणोपायेन निवेदनं -गुर्वादिज्ञापनं विपर्ययलिङ्गानामेव कार्यमिति । नन्वेवं प्रव्रज्याप्रतिपत्तावपि को गुणः स्याद् ? इत्याशङ्क्याह - "न धर्मे मायेति" [ ४।३०] न -नैव धर्मे साध्ये माया क्रियमाणा माया –वञ्चना भवति, परमार्थतोऽमायात्वात् तस्याः । एतदपि कुतः ? इत्याह – "उभयहितमेतदिति" [४।३१] उभयस्य -स्वस्य गुरुजनस्य च हितं-श्रेयोरूपम् एतत्-एवं प्रव्रज्याविधौ मायाकरणम् , एतत्फलभूतायाः प्रव्रज्यायाः स्वपरोपकारकत्वात् । पठ्यते च -
"अमायोऽपि हि भावेन, माय्येव तु भवेत् क्वचित् ।
पश्येत् स्वपरयोर्यत्र, सानुबन्धं हितोदयम्" ॥१॥ [धर्म.बि.वृ.४/३१वृ.] प्रकृतमनुसरामः । अथेत्थमपि कृते तं विना गुर्वादिजनो निर्वाहमलभमानो न तं प्रव्रज्यार्थमनुजानीते तदा किं विधेयम् ? इत्याह –'वृत्त्युपजीवनम्' इति वृत्तिः -तस्य जीविका निर्वाह इतियावत् , तस्या उपायः -शतसहस्रादिद्रव्यादिसमर्पणं तस्य समर्थनं - विधानम् , येन प्रव्रजितेऽपि तस्मिन्नसौ न सीदति, एवं च कृते कृतज्ञता (करुणा) भवति, करुणा च मार्गप्रभावनाबीजम् , ततस्तेनानुज्ञातः प्रव्रजेदिति । ___अथैवमपि न तं मोक्तुमसावुत्सहते तदा यत् कर्त्तव्यं तदाह – “ग्लानौ०"[४।३३] इत्यादि, "ग्लानस्य–तथाविधव्याधिबाधावशेन ग्लानिमागतस्य गुर्वादेर्लोकस्य ओषधादेदृष्टान्तादौषधस्य, आदिशब्दात् स्वनिर्वाहस्य च ग्रहस्तस्य गवेषणमपि ओषधादीत्युच्यते, ततो ग्लानौषधाद्येव दृष्टान्तस्तस्मात् त्यागः कार्यो गुर्वादेरिति । इदमुक्तं भवति –यथा कश्चित् कुलपुत्रक: कञ्चिदपारं कान्तारं गतो मातापित्रादिसमेतस्तत्प्रतिबद्धश्च तत्र व्रजेत् । तस्य च गुर्वादेस्तत्र व्रजतो नियमघाती वैद्यौषधादिरहितपुरुषमात्रासाध्यस्तथाविधौषधादिप्रायोग्यश्च महानातङ्कः स्यात्। तत्र चासौ तत्प्रतिबन्धादेवमालोचयति-यथा न भवति नियमादेष गुरुजनो नीरुग् औषधादिमन्तरेण । औषधादिभावे च संशयः -कदाचित् स्यात् कदाचिन्नेति । कालसहश्चायम् । ततः संस्थाप्य तथाविधचित्रवचनोपन्यासेन तंतदौषधादिनिमित्तं स्ववृत्तिहेतोश्च त्यजन् सन्नसौ साधुरेव भवति । एष हि त्यागोऽत्याग एव । यः पुनरत्यागः स परमार्थतस्त्याग एव । यतः फलमत्र प्रधानम् , वीराश्चैतद्दर्शिन एव भवन्ति । तत औषधसम्पादनेन तं जीवयेदपीतिसम्भवात् , सत्पुरुषोचितमेतत् ।
१. L. I स्वपरोपकार(रि)त्वात्-मु० P.C. ॥
D:\new/d-3.pm53rd proof