________________
४७६ ] [ धर्मसंग्रहः - तृतीयोऽधिकारः सम्भवति, न पुनरविरतसम्यग्दृष्ट्यादीनाम्, मार्गाभिमुख मार्गपतितयोस्तु कुग्रहसम्भवेऽ तत्त्याग एव तद्भावनामात्रसाध्य इत्यत उक्तं - सकृद्बन्धकापुनर्बन्धकयोरिति । एतयोऽश्च भावसम्यक्त्वाभावाद् दीक्षायां द्रव्यसम्यक्त्वमेवारोप्यत इति । कुग्रहविरहम् - असदभिनिवेशवियोगम्, लघु – शीघ्रम् करोतीत्यलं विस्तरेण ।
तथा- “कालपरिहाणिदोसा, इत्तो इक्काइगुणविहीणेणं ।
अन्नेण वि पव्वज्जा, दायव्वा सीलवंतेणं ॥ १ ॥ [प.व./गा. ३०] गीअत्थो कडजोगी, चारिती तह य गाहणाकुसलो ।
अणुवत्तगोऽविसाई, बीओ पव्वायणायरिओ" ॥२॥ [ प.व./गा.३१ ] इति । प्रव्राजकार्हत्वमुक्तम्, अत्र च धर्मबिन्दौ दशपरतीर्थिकमतान्युपन्यस्तानि, तानि (च) विशेषज्ञानार्थिना तत एवावगन्तव्यानि ॥ ७९-८३।।
इत्युक्तौ प्रव्राज्यप्रव्राजकौ । अथ पूर्वमुक्तं ' विधिप्रव्रजित' इति अतः श्लोकद्वयेन प्रव्रज्यादानविध्यभिधित्सया प्रथमश्लोकेन प्रव्राज्यगतं द्वितीयश्लोकेन च प्रव्राजकगतं
तमाह -
गुर्वनुज्ञोपधायोगो, वृत्त्युपायसमर्थनम् । ग्लानौषधादिदृष्टान्तात् , त्यागो गुरनिवेदनम् ॥८४॥ प्रश्नः साधुक्रियाख्यानं परीक्षाकण्ठतोऽर्पणम् । सामायिकादिसूत्रस्य, चैत्यनुत्यादि तद्विधिः ॥८५॥ युग्मम् ॥
गुर्वनुज्ञानादिस्तद्विधिः- तस्याः प्रव्रज्याया (विधिः) इतिकर्त्तव्यार्थोपदेशो भवतीत्यन्तेन सम्बन्धः । तत्र गुरवो - मातापित्रादयस्तस्या (स्तेषाम) नुज्ञा - 'प्रव्रज त्वम्' इत्यनुमतिरूपा गुर्वनुज्ञा, यदा पुनरसौ तत्तदुपायतोऽनुज्ञापितोऽपि न मुञ्चति तदा यद्विधेयम्, तदाह–'उपधायोग' इति उपधा - माया तस्या योगः - प्रयोजनम्, सा च तत् तत्प्रकारैः सर्वथा परैरनुपलक्ष्यमाणैः प्रयोज्या ।
तेच प्रकारा इत्थं धर्मबिन्दौ प्रोक्ताः, तद्यथा - " दुःस्वप्नादिकथनम् " [ ४।२७ ] इति दुःस्वप्नस्य –खरोष्ट्रमहिषाद्यारोहणादिदर्शनरूपस्य आदिशब्दात् मातृमण्डलादिविपरीतालोकनादिग्रहः, तस्य कथनं - गुर्वादिनिवेदनमिति । तथा "विपर्ययलिङ्गसेवेति” [ ४-२८ ] विपर्ययः - प्रकृतिविपरीतभावः स एव मरणसूचकत्वाल्लिङ्गं तस्य सेवा - निषेवणं कार्यम्, येन गुर्वादिर्जनः सन्निहितमृत्युरयमित्यवबुध्य प्रव्रज्या -
D:\new/d-3.pm5\3rd proof