________________
प्रव्राजकगुणाः - श्लो० ७९-८३ ॥]
[ ४७५
पक्षश्चायम् । अथात्रैवापवादमाह – ' पादार्द्ध' इत्यादि पादेन - चतुर्थभागेन अर्द्धेन - प्रतीतरूपेण प्रस्तुतगुणानां हीनौ – न्यूनौ तौ – प्रव्राज्यप्रव्राजकौ मध्यमावरौ - मध्यमजघन्यौ क्रमेण योग्यौ स्यातामिति । पञ्चवस्तुके त्वेवम्
"कालपरिहाणिदोसा, एत्तो एक्काइगुणविहीणो वि ।
जे बहुगुणसंपन्ना, ते जोग्गा हुंति णायव्वा" ॥१॥ [ प.व./गा.३७ ] इति द्वितीयपदे प्रव्रज्यार्हत्वमुक्तम् । अत एव देशविरतानामिव यथाभद्रकानामपि कतिपयगुणवतां संयमनिर्वाहयोग्यतां परिज्ञाय प्रव्रज्यादानं कुर्वते गीतार्थाः । तच्च तत्तद्गुणवतामुत्तरोत्तरगुणहेतुतया परिणमति अव्युत्पन्नदशायां च सदनुष्ठानरागमात्रेण धर्ममात्रहेतुतया पर्यवस्यति । तदुक्तं पूजामधिकृत्य विंशिकायाम् -
"पढमकरणभेएणं, गंथासन्नस्स धम्ममित्तफला ।
सा हुज्जुगाड़भावाओ, जायइ तह नाणुबंध त्ति" ॥१॥ [प.व./८] 'सा हुज्जुगाइभावो’त्ति सद्योगावञ्चकादिभावः । 'नानुबन्ध' इति सम्यग्दृष्ट्यादितदुत्तरोत्तरभावाविच्छेदः । तपोविशेषमाश्रित्य पञ्चाशके प्रोक्तम् -
" एवं पडिवत्तीए, इत्तो मग्गाणुसारिभावाओ ।
चरणं विहिअं बहवे, पत्ता जीवा महाभागा ॥ [ पञ्चा.गा. १९।२७] प्रव्रज्यामाश्रित्य तत्रैवोक्तम् -
" दिक्खाविहाणमेयं, भाविज्जंतं तु तंतणीईए ।
अथवा
सइअपुणबंधगाणं, कुग्गहविरहं लहुं कुणइ " ॥१॥ [ पञ्चा. २।४४ ] इति । वृत्तिर्यथा - दीक्षाविधानम् एतद् - अनन्तरोक्तम्, 'भाविज्जंतं तु'त्ति भाव्यमानमपि पर्यालोच्यमानमपि, आस्तामासेव्यमानम्, सकृद्बन्धकापुनर्बन्धकाभ्यामिति गम्यम्, भाव्यमानमेव नाभाव्यमानमपि, तुशब्दोऽपिशब्दार्थः एवकारार्थो वा, तन्त्रनीत्या - आगमनयेन, कयोः? इत्याह –सकृद्– एकदा न पुनरपि च बन्धो - मोहकर्मोत्कृष्टस्थितिबन्धनं ययोस्तौ सकृदपुनर्बन्धकौ तयोः, सकृद्बन्धकस्यापुनर्बन्धकस्य चेत्यर्थः । तथा (हि) – यो यथाप्रवृत्तकरणेन ग्रन्थिप्रदेशमागतो भिन्नग्रन्थिः सकृदेवोत्कृष्टां सागरोपमकोटाकोटिसप्ततिलक्षणां स्थितिं भन्त्स्यत्यसौ सकृद्बन्धक उच्यते । यस्तु तां तथैव क्षपयन् ग्रन्थिप्रदेशमागतः पुनर्न तां भन्त्स्यति भेत्स्यति च ग्रन्थि सोऽपुनर्बन्धक उच्यते । "पावं ण तिव्वभावा कुणइ " [ योगशतके १३, पञ्चाशक प्र० ३।४ ] इति वचनात् । एतयोश्चाभिन्नग्रन्थित्वेन कुग्रहः १. णावि - इति पञ्चवस्तुके ॥ २. P. C. | पुनरपि (पुनः) बन्धो - मु० ॥ ३. [स] स° मु० ॥
D:\new/d-3.pm5\3rd proof