________________
४७४]
[धर्मसंग्रह:-तृतीयोऽधिकारः तथा 'सर्वसत्त्वेषु' सर्वप्राणिषु हितमन्वेषत इत्येवंशीलो हितान्वेषी, तत्तच्चिन्तोपायोपादानेन सामान्येन सर्वसत्त्वप्रियकरणपरायणः ८। तथा 'आदेयः परेषां ग्राह्यवचनचेष्ट: ९। 'चः' पुनः अनुवर्त्तकः' चित्रस्वभावानां प्राणिनां गुणान्तराधानधियाऽनुवृत्तिकरणशील: अनुपालक इत्यर्थः । शिष्याणामनुवर्त्तनयैव गुरूणां गुरुत्वम् , शिष्याणामननुपालनेन शासनप्रत्यनीकत्वादिदोषा एव । यतः पञ्चवस्तुप्रकरणे -
"इत्थं पमायखलिआ, पुव्वब्भासेण कस्स व ण होंति ?। जो तेऽवणेड सम्मं, गरुत्तणं तस्स सफलं ति ॥२॥[प.व./गा. १८] को णाम सारहीणं, स होज्ज जो भद्दवाइणो दमए ?। दुढे वि अ जे आसे, दमेइ तं आसिअंबिंति ॥२॥[प.व./गा. १९] जो आयरेण पढम, पव्वावेऊण नाणुपालेइ । सेहे सुत्तविहीए, सो पवयणपच्चणीओ त्ति ॥३॥ [प.व./गा. २०] अविकोविअपरमत्था, विरुद्धमिह परभवे अ सेवंता ।
जंपाविति अणत्थं, सो खलु तप्पच्चओ सव्वो"॥४॥[प.व./गा. २१ ] इति १०। तथा 'गम्भीरो' रोषतोषाद्यवस्थायामप्यलब्धमध्यः ११। तथा 'अविषादी' न विषादवान् , कुत्र ?-'उपसर्गादिपराभवे' 'उपसर्गपरिषहाद्यभिद्रुतः कायसंरक्षणादौ न दैन्यमुपयातीत्यर्थः १२। तथा 'उपशमलब्ध्यादियुक्तः' उपशमलब्धिः -परमुपशमयितुं सामर्थ्यलक्षणा, आदिशब्दादुपकरणलब्धिः स्थिरहस्तलब्धिश्च गृह्यते । ततस्ताभिः [सं] युक्तः -सम्पन्नः १३। तथा सूत्रार्थं -प्रवचनार्थं भाषते -वक्तीति सूत्रार्थभाषकः, यथावस्थितागमार्थप्रज्ञापक: १४। तथा स्वगुर्वनुज्ञातगुरुपदः' “स्वगुरुणा-गच्छनायकेनानुज्ञातगुरुपदः -समारोपिताचार्यपदवीक' इति धर्मबिन्दुवृत्तौ [ ] व्याख्यातम् । पञ्चवस्तुविवरणे तु-"स्वगुर्वनुज्ञातगुरुपदश्चैव, असति तस्मिन् दिगाचार्यादिना स्थापितगुरुपद इत्यर्थः'' [ गा० १३ प० ५ A] चकारो विशेषणसमुच्चये, इतिशब्दो गुरुगुणेयत्तासूचकः । ईदृशेन गुरुणा विनेयानुग्रहार्थं प्रव्रज्या दातव्येति भावार्थः । यतः पञ्चवस्तुके -
"एआरिसेण गुरुणा, सम्मं परिसाइकज्जरहिएणं ।
पव्वज्जा दायव्वा, तयणुग्गहणिज्जराहेऊ" ॥१॥[प.व./गा.१४] इति १५। अत्र षोडश प्रव्रज्यार्हगुणाः पञ्चदशः पुनर्गुरूणां गुणा निरूपिता इति । उत्सर्ग१. जो-इति पञ्चवस्तुके ॥ २. संयुक्तः-P.L.C. ।
D:\new/d-3.pm53rd proof