________________
प्रव्राजकगुणाः - श्लो० ७९-८३॥ ]
तत्र प्रव्रज्यार्हस्तूक्त एव । अथ पञ्चभिः श्लोकैर्योग्यगुरुमाह - योग्यो गुरुस्तु पूर्वोक्तगुणैः सङ्गत एव हि । विधिप्रपन्नप्रव्रज्य १ आसेवितगुरुक्रमः २ ॥७९॥ अखण्डितव्रतो नित्यं ३, विधिना पठितागमः ४ । तत एवातिविमलबोधयोगाच्च तत्त्ववित् ५ ॥८०॥ उपशान्तश्च ६ वात्सल्ययुक्तः प्रवचनेऽखिले ७ । सर्वसत्त्वहितान्वेषी ८, आदेय ९ श्चानुवर्त्तकः १० ॥८१॥ गम्भीर ११ श्चाविषादी चोपसर्गादिपराभवे १२ । तथोपशमलब्ध्यादियुक्तः १३ सूत्रार्थभाषकः १४ ॥८२॥ स्वगुर्वनुज्ञातगुरुपद १५ श्चेति जिनैर्मतः ।
पादार्द्धगुणहीनौ च, यौग्यौ तौ मध्यमावरौ ॥८३॥ पञ्चभिः कुलकम् ॥ 'योग्यो 'गुरुः ' प्रव्राजकपदयोग्यः, तुशब्दः पूर्वस्माद् विशेषणार्थः, 'इति' अमुना दर्श्यमानप्रकारेण, जिनैर्मतः । स च यथा 'पूर्वोक्तगुणैः ' प्रव्रज्यार्हगुणैः 'सङ्गतः ' संयुक्त एव सन्, न पुनरन्यादृशोऽपि, तस्य स्वयं निर्गुणत्वेन प्रव्राज्यबीजनिक्षेपकरणायोगात् । किम् ? इत्याह –‘विधिप्रपन्नप्रव्रज्य : ' विधिना वक्ष्यमाणक्रमेणाधिगतदीक्षः १ । तथा' आसेवितगुरुक्रमः' समुपासितगुरुचरणः, गुरुकुलवाससेवीत्यर्थः २। तथा 'नित्यं' प्रव्रज्याप्रतिपत्तिप्रभृत्येवाखण्डितव्रतः ' - अविराधितचारित्रः ३ । तथा 'विधिना' यथोक्तयोगविधानेन ‘पठितागमः' अधीतसूत्रः, सूत्रार्थोभयज्ञानक्रियागुणभाजो गुरोरासेवनेनाधिगतपारगतगदितागमरहस्यः । यतः पठ्यते -
"तित्थे सुत्तत्थाणं गहणं विहिणा उ तत्थ तित्थमिदं ।
उभयन्नू चेव गुरू विही उ विणयाइओ चित्तो ॥१॥ [ उप./प.गा.८५१]
[ ४७३
उभयन्नू वि अ किरिआपरो दढं पवयणाणुरागी अ ।
ससमयपन्नवओ परिणओ अ पन्नो अ अच्चत्थं " ॥२॥ [ उप./प.गा.८५२ ] इति ।४।
'तत एव' विधिपठितागमत्वादेव हेतो: 'अतिविमलः ' शेषान् सम्यगधीतागमानपेक्ष्य स्फुटतरो यो ‘बोधः' प्रज्ञोन्मीलस्तस्य यः सम्बन्धस्तस्मात् तत्त्वं वेत्तीति तत्त्वविद् - जीवाजीवादिवस्तुविज्ञाता ५। तथा 'उपशान्तो - मनोवाक्कायविकारविकलः ६ । तथा 'अखिले' समस्ते 'प्रवचने' साधु-साध्वी श्रावक-श्राविकारूपचतुर्वर्णश्रमणसङ्घ ('वात्सल्ययुक्तः ') यथानुरूपवत्सलः वात्सल्यविधायी ७
D:\new/d-3.pm5\3rd proof
-