________________
४७२]
[धर्मसंग्रह:-तृतीयोऽधिकारः ___एआणि नपुंसया दस, ते पुरिसेसु चेव वुत्ता नपुंसदारे जइ जे पुरिसेसु वुत्ता ते चेव इहं पि किंकओ भेदो ?, भन्नइ, तहिं पुरिसागिइगहणं, सेसया ण भवंति" [गा० ३७३६ ] एवं स्त्रीष्वपि वाच्यम् , न चैवमपि नपुंसकाः श्रुते षोडशविधाः श्रूयन्ते तत्कथमत्र दशैवोक्ताः ?, सत्यम् , दशैव भेदाः प्रव्रज्यानस्तितस्त एवोक्ताः, शेषाः षट् तु दीक्षायोग्याः । तथा चोक्तम् -
"वडिए चिप्पिए चेव, मंतओसहिउवहए।
इसिसत्ते देवसत्ते अ, पव्वावेज्ज नपुंसए" ॥१॥[ ] अस्यार्थः-यस्य बालत्वेऽपि छेदं दत्त्वा वृषणौ गालितौ स वद्धितकः १॥ यस्य तु जातमात्रस्याङ्गष्ठाङ्गुलीभिर्मर्दयित्वा तौ द्राव्येते स चिप्पितः । एतयोश्चैवंकृते नपुंसकवेदोदयः सम्पद्यते २। मन्त्रौषधिसामर्थ्यात् पुंवेदे स्त्रीवेदे वा समुपहते नपुंसकवेदः समुदेति ४। ऋषिदेवयोः शापात् तदुदयो जायते ।६ एतान् षट् नपुंसकान् प्रव्राजयेदिति प्रव्रज्यार्ह
उक्तः ।
अत्राह-ननु पूर्वं यतिधर्माहत्वं प्रस्तूय अत्र प्रव्रज्याहत्वस्य समापने कथं न पूर्वापरविरोधः ? इति चेत् , मैवम् , परमार्थानभिज्ञानात् , यतिधर्मो पत्राचाररूपः प्रकान्तः, तस्य प्रव्रज्यायाश्चैकार्थत्वात् । यत उक्तं पञ्चवस्तुके -
"पव्वज्जा निक्खमणं, समया चाओ तहेव वेरग्गं ।
धम्मचरणं अहिंसा दिक्खाएगट्ठिआई तु" ॥१॥[ प.व./९] इति ॥७७॥ अथात्र यतिधर्मप्रस्तावनायां अवयवार्थबोधं विना समुदायार्थस्य दुर्बोधात् प्रथम यतिपदवाच्यमाह -
यतिरेवंविधो भव्यो, गुरोर्योग्यस्य सन्निधौ ।
विधिप्रव्रजितः शुद्धव्यवहाराज्जिनैर्मतः ॥७८॥ ‘एवंविध' उक्तस्वरूपः प्रव्रज्यार्ह इत्यर्थः, यो ‘भव्यो' मुक्तिगमनार्हः प्राणी स 'योग्यस्य गुरोः' वक्ष्यमाणलक्षणस्य 'सन्निधौ' समीपे 'विधिना' वक्ष्यमाणेनैव 'प्रव्रजितो' गृहीतदीक्षः 'शुद्धव्यवहारतः( रात् )' शुद्धव्यवहारनयापेक्षया 'जिनैः' अर्हद्भिः यतिर्मतः -प्रज्ञप्तः । इत्थं च अर्होऽहंसमीपे विधिप्रवजितो यतिरिति पर्यवसन्नम् ॥७८॥
१. तुला-निशीथचूणिः गा० ३६०० ॥
D:\new/d-3.pm53rd proof