________________
प्रव्रज्याया अयोग्याः – श्लो० ७२-७७ ॥]
[ ४७१
विक्षिपन् भाषते, अभीक्ष्णं च कट्यां हस्तकं ददाति, प्रावरणाभावे स्त्रीवद्बाहुभ्यां हृदयमाच्छादयति, भाषमाणश्च पुनः पुनः साचिभ्रूयुग्ममुत्क्षिपति, केशबन्धप्रावरणादिकं स्त्रीवत् करोति, योषिद्भूषणादिपरिधानं च बहु मन्यते, स्नानादिकं प्रच्छन्ने समाचरति, पुरुषसमाजमध्ये च सभयः शङ्कितस्तिष्ठति, स्त्रीसभायां तु निःशङ्कः रन्धनपेषणादि च स्त्रीकर्म करोति, इत्यादिमहिलास्वभावत्वम् । तथा स्वरः - शब्दो वर्णश्च - शरीरसम्बन्धी, उपलक्षणत्वाद् गन्धादयश्च, स्त्रीपुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः । मेन्ढूं-लिङ्गं महद् भवति । मृद्वी च वाणी । स्त्रिया इव सशब्दं मूत्रं फेनरहितं च । एतानि षट् पण्डकलक्षणानि १ ।
I
तथा वातोऽस्यास्तीति वातिकः, यः स्वनिमित्ततोऽन्यथा वा स्तब्धे मेहने सति स्त्रीसेवनायामकृतायां वेदं धारयितुमसमर्थः २।
क्लीबोऽसमर्थः, स च दृष्टि - शब्दाऽऽश्लिष्ट - निमन्त्रणक्लीबभेदाच्चतुर्द्धा -तत्र विवस्त्रां स्त्रीं दृष्ट्वा क्षुभ्यति स आद्यः । स्त्रीशब्दं श्रुत्वा क्षुभ्यन् द्वितीयः । स्त्रियाऽऽलिङ्गितो निमन्त्रितश्च क्षुभ्यन् क्रमेण तृतीयस्तुर्यश्च ३।
यस्य तु मोहोदयात् सागारिकं वृषणौ वा कुंम्भवत् स्तब्धौ भवतः स कुम्भी ४। यस्य प्रतिसेव्यमानां वनितां वीक्ष्यातीव ईर्ष्या जायते स ईर्ष्यालुः ५ ।
तथा चटकवदुत्कटवेदतयाऽभीक्ष्णं प्रतिसेवनाप्रसक्तः शकुनिः ६ ।
तथा मैथुनमासेव्य बीजनिसर्गे सति यः श्वान इव वेदोत्कटतया जिह्वालेहनादिनिन्द्यकर्मणा सुखमात्मनो मन्यते स तत्कर्मसेवी ७।
तथा यस्य पक्षे – शुक्लपक्षेऽतीव मोहोदयः स्यात् अपक्षे च- कृष्णपक्षे स्वल्पः स पाक्षिकापाक्षिकः ८
तथा यः शुभगन्धं मन्वानः स्वकीयं लिङ्गं जिघ्रति स सौगन्धिकः ९ ।
तथा यो वीर्यपातेऽपि कामिनीमालिङ्ग्य तदङ्गेषु कक्षोपस्थादिषु प्रविश्य तिष्ठति
स आसक्तः १० ।
पण्डकादीनां च परिज्ञानं तेभ्यस्तन्मित्रादेव कथनादिति । ननु पुरुषमध्ये नपुंसका उक्ता इहापि चेति को विशेषः ?, उच्यते, तत्पु (त्र पुरुषाकृतीनां ग्रहणम्, इह तु नपुंसकाकृतीनामिति । उक्तं च निशीथचूर्णौ -
१. तुला- निशीथचूर्णि: गा० ३५६७, गा० ३५८९ तः ॥ २. कुम्भवदुत्सूनौ - इति प्रवचनसारोद्धारटीका भा० २ । प० ४४ ॥ ३. (स) तत्कर्म° मु० C. ॥
D:\new/d-3.pm5\3rd proof