________________
४७०]
[धर्मसंग्रह:-तृतीयोऽधिकारः भृतक: रूपकादिवृत्त्या धनिनां गृहे स्थितः, सोऽपि दीक्ष्यमाणो धनिनामप्रीतिकर इत्यनर्ह एव १७।
तथा शैक्षकस्य दीक्षितुमिष्टस्य निःस्फेटिका –अपहरणं शैक्षनिःस्फेटिका, तद्योगान्मातापित्रादिभिरमुत्कलितोऽपहृत्य दीक्षितुमिष्यते सोऽपि शैक्षनि:स्फेटिका । सोऽप्यदीक्ष्यः, स्वजनादीनां कर्मबन्धसम्भवात् , अदत्तादानादिदोषप्रसङ्गाच्च १८॥
इत्येतेऽष्टादश पुरुषस्य-पुरुषाकारवतो दीक्षानर्हभेदा इति । तथा तेन -पुरुषेषूक्तप्रकारेण स्त्रीष्वपि अष्टादशभेदा भवन्ति । अयं भावः -येऽष्टादश व्रतायोग्या बालादयो भेदाः पुंस्सूक्तास्ते स्त्रीष्वपि ज्ञेयाः । अन्यावपि द्वाविमौ भवतः । यथा गुर्विणी -सगर्भा १, सह बालेन -स्तन(न्य)पायिना वत्सेन वर्त्तते सबालवत्सा २ । एते सर्वेऽपि विंशतिः स्त्रीभेदा व्रतायोग्याः । दोषा अप्यत्र पूर्ववद्वाच्याः ।
नपुंसकेषु दश दीक्षाऽयोग्याः, यथा - "पंडए १ वाइए २ कीबे ३, कुंभी ४ ईसालुए ५ त्ति अ। सउणी ६ तक्कम्मसेवी अ७, पक्खिआपक्खिएइअ८॥१॥[नि.भा./३५६१,प्रव.७९३ ] सोगंधिए अ ९ आसत्ते १०, दस एए नपुंसगा। संकिलिट्ठित्ति काऊणं, पव्वावेउं अकप्पिआ" ॥२॥ [ प्रव.७९४ ]
पण्डकादयो दश नपुंसकाः, संक्लिष्टचित्ता इति साधूनां प्रव्राजयितुमकल्प्याः । संक्लिष्टत्वं चैषां सर्वेषामप्यविशेषतो नगरदाहसमानकामाध्यवसायसम्पन्नत्वेन स्त्रीपुरुषसेवामाश्रित्य विज्ञेयम् । उभयासेविनो ह्येते । तत्र पण्डकस्य लक्षणम् – "महिलासहावो सरवण्णभेओ, मिढं महन्तं मउआ य वाणी। ससद्दयं मुत्तमकेणयं च, एआणि छप्पंडगलक्खणाणि" ॥१॥[नि.भा./३५६७]
पुरुषाकारधारिणोऽपि महिलास्वभावत्वं पण्डकस्यैकं लक्षणम् । तथाहि-गतिस्त्रस्तपदाकुला मन्दा च भवति, सशङ्कं च पृष्ठतो विलोकमानो गच्छति, शरीरं च शीतलं मृदु च भवति, योषिदिवानवरतं हत्थोलकान् प्रयच्छति, उदरोपरि तिर्यग्-व्यवस्थापितवामकरतलस्योपरिष्टाद् दक्षिणकरकूपरं विन्यस्य दक्षिणकरतले च मुखं कृत्वा बाहुं च
१. तुला-धर्मबिन्दुटीका भा० २ प०५ प्रवचनसारोद्धारटीका भा० २। प० ४१ तः ।। २. स्तनपा० L.P.C. । स्तन्यपा इति प्रव०सारो०टी० ॥३. L.P.C. प्रव०सारो०टीका । संकिलिट्ठि(?)त्ति-मु०॥ ४. गतिस्तस्य' इति प्रवचनसारो० टी० । गती से मंदा पदाकुला-इति निशीथचूर्णौ गा० ३५६८ ।। ५. हत्थोल्लकान्-इति प्रवचनसारो० टी० । तुला-निशीथचूर्णिः गा० ३५६९तः ॥
D:\new/d-3.pm5\3rd proof