________________
प्रव्रज्याया अयोग्याः -श्लो० ७२-७७॥]
[४६९ शरीरजड्डस्तु मार्गगमनभक्तपानानयनादिष्वशक्तो भवति । तथाऽतिजड्डस्य प्रस्वेदेन कक्षादिषु कुथितत्वं भवति । तेषां जलेन क्षालनेषु क्रियमाणेषु कीटिकादिप्लावना सम्भवति । ततः संयमविराधना तथा लोकोऽतिनिन्दां करोति बहुभक्षीति, तथोर्ध्वश्वासो भवति, ततोऽसौ न दीक्षणीयः ५।
तथा 'वाहित्ति महारोगैाधितः, सोऽपि दीक्षाऽनर्हः, तच्चिकित्सने षट्कायविराधना स्वाध्यायहानिश्च ६।
तथा स्तेन: -चौरः, सोऽपि गच्छस्य नानाविधानर्थनिबन्धनतया दीक्षानर्ह एव ७/
तथा राजापकारी -राजसम्बन्धिद्रव्यपरिवारादिद्रोही, तद्दीक्षणे रुष्टराजकृता मारणदेशनिःसारणादयो दोषाः स्फटा एव ८।
तथा यक्षादिभिः प्रबलमोहोदयेन वा परवश उन्मत्तः, सोऽपि दीक्षाऽयोग्याः । यक्षादिभ्यः प्रत्यवायसम्भवात् , स्वाध्यायध्यानादिहानिप्रसङ्गाच्च ९।
तथा न विद्यते दर्शनं -दृष्टिरस्येत्यदर्शन:-अन्धः, स्त्यानद्धिनिद्रोदयवानप्यत्र द्रष्टव्यः, न विद्यते दर्शनं -सम्यक्त्वमस्येति व्युत्पत्तेः, एतयोरप्यनर्थ एव १०।
तथा गृहदास्याः संजातो दुर्भिक्षादिष्वर्थादिना वा क्रीतो दासस्तद्दीक्षणे तत्स्वामिकृतोपद्रवः स्फुट एव ११।
तथा दुष्टो द्विधा-कषायदुष्टो विषयदुष्टश्च, तत्राद्य उत्कटकोपान् , द्वितीयोऽतीव परयोषिदादिषु गृद्धः । सोऽप्ययोग्योऽतिसंक्लिष्टाध्यवसायत्वात् १२।
तथा स्नेहाज्ञानादिपरतन्त्रतया यथावस्थितवस्त्वधिगमशून्यमानसो मूढः, सोऽपि ज्ञानविवेकमूलायामर्हद्दीक्षायां नाधिक्रियते १३।
तथा ऋणातः प्रसिद्धः, तद्दीक्षणेऽप्युत्तमर्णकृतः पराभवो व्यक्त एव १४।
तथा जातिकर्मशरीरादिभिर्दूषितो जुङ्गितः । तत्र मातङ्ग-कोलिक-गरुड-सूचकच्छिम्पिकादयोऽस्पृश्या जातिजुङ्गिताः । स्पृश्या अपि सौकरिकत्व-वागुरिकत्वादिनिन्दितकर्मकारिणः कर्मजुङ्गिताः, पङ्ग-कुब्ज-वामना-ऽकर्णादयः शरीरजुङ्गिताः । तेऽप्यनर्हाः, लोकेऽवर्णवादसम्भवात् १५। __ तथाऽर्थग्रहणपूर्वकं विद्यादिग्रहणनिमित्तं वा विवक्षितकालं यः परायत्तः सोऽवबद्धः, सोऽप्यनर्हः, कलहादिसम्भवात् १६।
१. “च्छिम्प” इति प्रवचनसा० टीका भा० २ प० ४० ।।
D:\new/d-3.pm5\3rd proof