SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ४६८] [धर्मसंग्रहः-तृतीयोऽधिकार: स ह्ययोगोलकसमानो यतो यतः स्पन्दते ततस्ततोऽज्ञानित्वात् षट्कायवधो भवति तथा 'निरनुकम्पाः श्रमणा यदेवं बालानपि बलाद् दीक्षाकारागारे प्रक्षिप्य स्वच्छन्दतामुच्छिन्दन्ति' इति जननिन्दा । तत्परिचेष्टायां च मातृजनोचितायां क्रियमाणायां स्वाध्यायपलिमन्थः स्यादिति १। तथा सप्ततिवर्षेभ्यः परतो वृद्धो भण्यते, अन्ये त्वाहुः-अर्वागपीन्द्रियहानिदर्शनात् षष्टिवर्षेभ्य उपरि वृद्धोऽभिधीयते, तस्यापि च समाधानादिकं दुःशक्यम् । यदुक्तम् - "उच्चासणं समीहइ, विणयं न करेइ गव्वमुव्वहइ । वुड्डो न दिक्खिअव्वो, जइ जाओ वासुदेवेणं" ॥१॥[ ] इत्यादि । इदं च वर्षशतायुष्वं प्रति द्रष्टव्यम् । अन्यथा यद् यस्मिन् काले उत्कृष्टमायुस्तद् दशधा विभज्याष्टमनवमदशमभागेषु वर्तमानस्य वृद्धत्वमवसेयम् २। __ तथा स्त्रीपुंसोभयाभिलाषी पुरुषाकृतिः पुरुषो नपुंसकः । सोऽपि बहुदोषकारित्वात् दीक्षान), "बाले वुड्ढे अ थेरे अ" [ ] इति पाठस्तु निशीथादावदर्शनादुपेक्षितः ३। तथा स्त्रीभिर्भोगैर्निमन्त्रितोऽसंवृताया वा स्त्रिया अङ्गोपाङ्गानि दृष्ट्वा शब्दं वा मन्मनोल्लापादिकं तासां श्रुत्वा समुद्भूतकामाभिलाषोऽधिसोढुं न शक्नोति, पुरुषाकृतिः पुरुषः क्लीबः सोऽपि उत्कटवेदतया पुरुषवेदोदयात् बलात्कारेणाङ्गनालिङ्गनादि कुर्यात् तत उड्डाहादिकारित्वाद् दीक्षाऽयोग्य एव ४। तथा जड्डस्त्रिधा-भाषया शरीरेण करणेन च । भाषाजड्डः पुनस्त्रिधा-जलमूको मन्मनमूक एलकमूकश्च तत्र जलमग्न इव बुडबुडायमानो यो वक्ति स जलमूकः, यस्य तु वदतः खञ्चयमानमिव वचनं स्खलति स मन्मनमूकः, यश्चैलक इवाव्यक्तं मूकतया शब्दमात्रमेव करोति स एलकमूकः । तथा यः पथि भिक्षाटने वन्दनादिषु चातीव स्थूलतयाऽशक्तो भवति स शरीरजड्डः, करणं क्रिया तस्यां जड्डः करणजड्डः, समितिगुप्तिप्रत्युपेक्षणादिक्रियां पुनः पुनरुपदिश्यमानामप्यतीव जड्डतया यो ग्रहितुं न शक्नोति स करणजड्ड इत्यर्थः । तत्र भाषाजड्डस्त्रिविधोऽपि ज्ञानग्रहणेऽसमर्थत्वान्न दीक्ष्यः, १. पुरुषनपुंसकः-इति प्रवचनसारोद्धारवृत्तौ भा० २ प० ३७ ॥ २. (तादृशो यः) पुरुषा० मु० । स पुरुषा० प्रवचनसारो० टीका । पुरुषा० L.P.C. || ३. तुला आवश्यकहारिभद्रीय वृत्तिः प० ६२८ तः, निशीथभाष्यम् गा० ३६२५-४५ ॥ D:\new/d-3.pm53rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy