________________
प्रव्रज्याया अयोग्या:-श्लो० ७२-७७॥]
[४६७ तथा 'समुपसंपन्न' समिति -सम्यग्वृत्त्या सर्वथाऽऽत्मसमर्पणरूपया उपसंपन्न: - सामीप्यमागतः पूर्वोक्तसकलगुणगणभावेऽपि असमुपसंपन्नस्य प्रव्रज्याऽसिद्धेरिति १६।
अत्र च प्रव्रज्याहगुणप्रतिपादनेन तत्प्रतिपक्षभूताः तदयोग्यतारूपा दोषा अपि परमार्थत उक्ता एव । ते चामी सङ्ख्ययाऽष्टचत्वारिंशत् -
"बाले वुड्ढे नपुंसे अ, कीवे जड्डे अ वाहिए। तेणे रायावगारी अ, उम्मत्ते अ अदंसणे ॥१॥[प्र.सा./७९०] दासे दुढे अ मूढे अ, ऋणत्ते जुंगिए इअ ।
ओबद्धए अ भयए, सेहनिप्फेडिआ इअ ॥२॥[प्र.सा./७९१] इअ अट्ठारसभेआ, पुरिसस्स तहित्थिआइए चेव ।
गुव्विणि सबालवच्छा दुन्नि इमे हुँति अन्ने वि" ॥३॥ [प्र.सा./७९२] व्याख्या -जन्मत आरभ्याष्टौ वर्षाणि यावद्वालोऽत्राभिधीयते स च न दीक्षां प्रतिपद्यते वर्षाष्टकादधो वर्तमानस्य सर्वस्यापि तथास्वाभाव्याद् देशतः सर्वतो वा विरतिप्रतिपत्तेरभावात् । उक्तं च -
"एएसि वयपमाणं, अट्ठसमाउ त्ति वीअरागेहिं ।
भणिअं जहन्नयं खलु, उक्कोस अणवगल्लो त्ति" ॥१॥ [ प.व./५०] उत्कृष्टं वय:प्रमाणम् अनवकल्प इत्यनत्यन्तवृद्ध इति । अन्ये तु गर्भाष्टमवर्षस्यापि दीक्षां मन्यन्ते । यदुक्तं निशीथचूर्णी -
"आदेसेण वा गब्भट्ठमस्स दिक्खत्ति"[नि०चू०गा० ३५४३] ननु भगवद्वज्रस्वामिना व्यभिचारः? "छम्मासिअंछसु जयं, माऊए समन्निवंदे''[आव०नि०/७६४] इति सूत्रप्रामाण्याद् , इति चेत् , सत्यम् , तस्य कादाचित्कतयाऽदोषत्वात् । उक्तं च पञ्चवस्तुके -
"तदधो परिभवखेत्तं, न चरणभावोऽवि पायमेएसिं ।
आहच्चभावकहगं, सुत्तं पुण होइ नायव्वं" ॥१॥ [ प.व./५१] इति । व्याख्या –तेषामष्टवर्षाणामधो वर्त्तमाना मनुष्या: परिभवक्षेत्रं भवन्ति येन तेन वा शिशुत्वात् परिभूयन्ते तथा चरणभावोऽपि प्राय एतेषां न भवति यत् पुनः "छम्मासिअम्"इत्यादिसूत्रं तत्कादाचित्कभावकथकम् , ततो वर्षाष्टकादधः परिभवक्षेत्रत्वात् चरणपरिणामाभावाच्च न दीक्ष्यन्त इति । अन्यच्च -बालदीक्षणे संयमविराधनादयो दोषाः,
१. तुला-धर्मबिन्दुः ५,३३ प्रवचनसारोद्धारवृत्तिः भा० २ प० ३५ ॥ २. सं-इति पञ्चवस्तुके॥
D:\new/d-3.pm53rd proof