________________
४६६]
[धर्मसंग्रहः-तृतीयोऽधिकारः __नरवीर इति व्यासेन युधिष्ठिरसंबोधनमिति । 'च:' पुनः अस्य' मरणस्य 'दारुणो विपाकः' अतिरौद्रः परिभवः, कस्माद्धेतो: ?-'सर्वचेष्टानिवर्त्तनात्' सर्वासां चेष्टानां - हिताहितप्राप्तिपरिहारार्थानां क्रियाणां निवर्त्तनात् –उपरमात् । 'इति' 'अमुना दुर्लभं मानुषं जन्म'इत्यादि 'दारुणश्च विपाकोऽस्य' इति पर्यन्तप्रकारेण 'स्वत एव' स्वभावेनैव 'हिः' निश्चये 'विज्ञातसंसारनैर्गुण्यः' विज्ञातम् -अवबुद्धं संसारस्य–प्रसिद्धस्य नैर्गुण्यं-नि:सारता येन स तथा [संसारसारताभावितचित्तस्य विषयतृष्णाऽनुपरमात्] ५। । ____ 'तत एव' संसारनैर्गुण्यज्ञानादेव 'तद्विरक्तः' संसारनिर्विण्णः, अनिविण्णस्य मधुबिन्दुकास्वादकादेरिव दुस्त्यजत्वात् संसारस्य ६।
तथा 'मन्दकषायभाक्' अल्पकषायवान् , तथाविधो हि स्वस्य परस्य च क्रोधानुबन्धमपनयन्नासादयत्येव योग्यताम् ७। ॥७३-७५।।
तथा 'अल्पः' प्रतनुः 'हास्यादिविकृतिः' हास्यादिनोकषायविकारो यस्य स तथा । बहुहास्यादेरनर्थदण्डरूपत्वात् । तस्य च गृहिणामपि निषिद्धत्वात् ८।
तथा कृतं जानातीति कृतज्ञः, [अकृतज्ञस्य लोकेऽप्यतिगर्हणीयत्वात्] ९। तथा 'विनयान्वितो' विनयवान् धर्मस्य विनयमूलत्वात् १०।
'च:' पुनः 'नृपादीनां' राजामात्यप्रभृतीनां 'सम्मतो' बहुमतः, राजादिविरोधिनो हि प्रव्राजने प्रत्युतानर्थसम्भवात् ११।।
तथा 'अद्रोही' कस्याप्यवञ्चक: 'द्रोहिणोऽप्यविश्वसनीयत्वात् १२।
तथा 'सुन्दराङ्गभृत्' रुचिरशरीरधारकः, अविनष्टदेहावयव इत्यर्थः । विनष्टावयवस्य दीक्षानर्हत्वात् । यतः -
"हत्थे पाए कन्ने, नासा उढे विवज्जिआ चेव ।
वामणवडंभखुज्जा, पंगुलटुंटा य काणा य" ॥१॥[प्र.सा./७९५] वामना हीनहस्तपादाद्यवयवाः, वडम्भाः पृष्ठतोऽग्रतो निर्गतशरीराः एकपार्श्वहीनाश्च कुब्जाः १३। ॥७६॥ ___ तथा 'श्राद्धः' श्रद्धावान् , दीक्षितस्यापि श्रद्धारहितस्य अङ्गारमर्दकादेरिव त्याज्यत्वात् १४। ____ 'च:' पुनः 'स्थिर:' प्रारब्धकार्यस्यापान्तराल एव न परित्यागकारी, [अस्थिरस्य प्रतिज्ञाततपोऽभिग्रहादिधर्मकृत्यानिर्वहणात्] १५।
१. L.P. | द्रोहिणोऽप्यविश्वसनीयत्वात्-मु० नास्ति ।
D:\new/d-3.pm53rd proof