________________
[७९३
परिशिष्टम् [१] धर्मसंग्रहमूलश्लोकाः ॥]
चतुर्विधस्याहारस्य, सर्वथा परिवर्जनम् । षष्ठं व्रतमिहैतानि, जिनैर्मूलगुणाः स्मृताः ॥११७॥ शेषाः पिण्डविशुद्ध्याद्याः, स्युरुत्तरगुणाः स्फुटम् । एषां चानतिचाराणां, पालनं ते त्वमी मताः ॥११८॥ आद्यव्रते ह्यतिचारा, एकाक्षादिवपुष्मताम् । सङ्घट्टपरितापोपद्रावणाद्याः स्मृता जिनैः ॥११९॥ असौ द्विधाणु-स्थूलाभ्यां, तत्राद्यः प्रचलादितः । द्वितीयः क्रोध-लोभादेमिथ्याभाषा द्वितीयके ॥१२०॥ एवं तृतीयेऽदत्तस्य, तृणादेर्ग्रहणादणुः । क्रोधादिभिर्बादरोऽन्यसचित्ताद्यपहारतः ॥१२१॥ ब्रह्मव्रतेऽतिचारस्तु , करकर्मादिको मतः । सम्यक् तदीयगुप्तीनां, तथा चाननुपालनम् ॥१२२॥ काकादिरक्षणं बालममत्वं पञ्चमेऽप्यणुः । द्रव्यादिग्रहणं लोभात् , स्थूलश्चाधिकधारणम् ॥१२३॥ दिनात्तदिनभुक्तादिचतुर्भङ्ग्यादिरन्तिमे । सर्वेष्वप्येषु विज्ञेया, दोषा वातिक्रमादिभिः ॥१२४॥ ज्ञानादिपञ्चाचाराणां पालनं च यथागमम् । गच्छवासकुसंसर्गत्यागोऽर्थपदचिन्तनम् ॥१२५॥ विहारोऽप्रतिबद्धश्च, सम्यग्गीतार्थनिश्रया । महामुनिचरित्राणां, श्रवणं कथनं मिथः ॥१२६॥ अतिचारालोचनेन, प्रायश्चित्तविधेयता । उपसर्गतितिक्षा च, परीषहजयस्तथा ॥१२७॥ अनुयोगगणानुज्ञाऽप्यनवद्यक्रमागता । तमेव सूत्रविदितं, वर्णयामो यथास्थितम् ॥१२८॥ व्रतग्रहेऽष्टौ सूत्रार्थविहारे द्वादश क्रमात् । पञ्चचत्वारिंशवर्षे, योग्यतैवं गणिस्थितेः ॥१२९॥ ईदृक्पर्यायनिष्पन्नः, षट्त्रिंशद्गुणसंगतः । दृढव्रतो यतियुतो, मुक्त्यर्थी सङ्घसम्मतः ॥१३०॥ श्रुतानुयोगाऽनुज्ञायाः, पात्रं न तु गुणोज्झितः । अपात्रे तत्प्रदाने यन्महत्याशातना स्मृता ॥१३१॥ युग्मम् ॥
D:\d-p.pm513rd proof