________________
७९२]
[धर्मसंग्रहः
प्राप्ते चतुर्थयामे तु , विश्रामणकृतिर्गुरोः । स्थविराद्यैर्जागरित्वा, तत्र वैरात्रिकग्रहः ॥१०२॥ ततः स्वाध्यायकरणं, यावत् प्राभातिकक्षणम् । इत्येवं दिनचर्यायाश्चरणं शुभयोगतः ॥१०३॥ इच्छामिच्छातथाकारा, गताऽवश्यनिषेधयोः । आपृच्छा प्रतिपृच्छा च, छन्दना च निमन्त्रणा ॥१०४॥ उपसंपच्चेति जिनैः, प्रज्ञप्ता दशधाभिधा । भेदः पदविभागस्तु , स्यादुत्सर्गापवादयोः ॥१०५॥ युग्मम् । एवमाराधयन् सामाचारी सर्वात्मना यतिः । भवेदुपस्थापनार्हः, सा च कार्या यथाविधि ॥१०६॥ ज्ञातशस्त्रपरिज्ञादिस्त्यागादिगुणसंयुतः । प्रियधर्मावद्यभीरुरुपस्थाप्योऽयमुच्यते ॥१०७॥ अप्राप्तोऽनुक्तकायादिरज्ञातार्थोऽपरीक्षितः । अनुपस्थापनीयोऽयं, गुरुणा पापभीरुणा ॥१०८॥ देवगुर्वोर्वन्दनं च, व्रतोच्चार: प्रदक्षिणाः । दिग्बन्धस्तप आख्यानं, मण्डलीवेशनं विधिः ॥१०९॥ अहिंसा सत्यमस्तेयं, ब्रह्माऽऽकिञ्चन्यमेव च । महाव्रतानि षष्ठं च, व्रतं रात्रावभोजनम् ॥११०॥ प्रमादयोगाद् यत् सर्वजीवासुव्यपरोपणम् । सर्वथा यावज्जीवं च प्रोचे तत् प्रथमं व्रतम् ॥११॥ सर्वथा सर्वतोऽलीकादप्रियाच्चाहितादपि । वचनाद्विनिवृत्तिर्या, तत् सत्यव्रतमुच्यते ॥११२॥ सकलस्याप्यदत्तस्य, ग्रहणाद्विनिवर्त्तनम् । सर्वथा जीवनं यावत् तदस्तेयव्रतं मतम् ॥११३॥ दिव्यमानुषतैरश्चमैथुनेभ्यो निवर्त्तनम् । त्रिविधंत्रिविधेनैव, तद् ब्रह्मव्रतमीरितम् ॥११४॥ परिग्रहस्य सर्वस्य, सर्वथा परिवर्जनम् । आकिञ्चन्यव्रतं प्रोक्तमर्हद्भिर्हितकाङ्क्षिभिः ॥११५॥ एतानि भावनाभिश्च, प्रत्येकं पञ्चभिः स्फुटम् । भवन्ति भावितान्येव, यथोक्तगुणभाञ्जि तु ॥११६॥
D:\d-p.pm5\3rd proof