________________
परिशिष्टम् [१] धर्मसंग्रहमूलश्लोकाः ॥]
विशुद्धमुपधानेन, प्राप्तं कालक्रमेण च । योग्याय गुरुणा सूत्रं, सम्यग् देयं महात्मना ॥८७॥ औघिकी दशधाख्या च, तथा पदविभागयुक् । सामाचारी त्रिधेत्युक्ता, तस्याः सम्यक् प्रपालनम् ॥८८॥ प्रतिलेखनिका १ पिण्डो २ पध्य ३ नायतनानि ४ च । प्रतिसेवा ५ ऽऽलोचने ६ च, शुद्धि ७ चेत्यौघिकी मता ॥ ८९ ॥ निशान्त्ययामे जागर्या, गुरोश्चावश्यकक्षणे ।
उत्सर्गो देवगुर्वादिनतिः स्वाध्यायनिष्ठता ॥ ९० ॥
काले च कालग्रहणं, ततश्चावश्यकक्रिया ।
द्राक् प्रत्युपेक्षणा सम्यग् स्वाध्यायश्चाद्यपौरुषीम् ॥९१॥
"
प्रतिलिख्य ततः पात्राण्यर्थस्य श्रवणं गुरोः । एवं द्वितीयापौरुष्यां, पूर्णायां चैत्यवन्दनम् ॥९२॥ कृत्वोपयोगं निर्दोषभिक्षार्थमटनं तदा । आगत्यालोचनं चैत्यवन्दनादिविधिस्ततः ॥९३॥ गुर्वादिच्छन्दनापूर्वं, विधिना भोजनक्रिया । यतनापात्रशुद्धौ च, पुनश्चैत्यनमस्क्रिया ॥९४॥ गुरुवन्दनपूर्वं च, प्रत्याख्यानस्य कारिता । आवश्यक्या बहिर्गत्वा, स्थण्डिले विविसर्जनम् ॥९५॥ आगत्य वसतौ गत्यागत्योरालोचनं स्फुटम् । शेषेऽथ पश्चिमे याम, उपधिप्रतिलेखना ॥९६॥ ततः स्वाध्यायकरणं, मुहूर्त्तं यावदन्तिमम् । तत्रोच्चारप्रश्रवणकालभूमिप्रमार्जनम् ॥९७॥ आवश्यककृतिः कालग्रहस्तारत्रयेक्षणे । ततः कालिकसूत्राद्यध्ययनादि यथाविधि ॥ ९८ ॥ साधुविश्रामणाद्यैश्च निशाद्यप्रहरे गते । गुर्वादेशादिविधिना, संस्तारे शयनं तथा ॥९९॥ स्थविराणां द्वितीयेऽपि, यामे सूत्रार्थभावनम् । अर्द्धरात्रिककालस्य, तृतीये ग्रहणं च तैः ॥१००॥ ततोऽवबोधश्च गुरोस्तेषां च शयनं तथा । उद्वर्त्तनादियतना, सन्मनोरथचिन्तनम् ॥१०१॥
"
D:\d-p.pm5\3rd proof
[ ७९१