________________
७९०]
[धर्मसंग्रहः
आर्यदेशसमुत्पन्नः १, शुद्धजातिकुलान्वितः २ । क्षीणप्रायाशुभकर्मा ३, तत एव विशुद्धधी: ४ ॥७२॥ दुर्लभं मानुषं जन्म, निमित्तं मरणस्य च । सम्पदश्चपला दुःखहेतवो विषयास्तथा ॥७३॥ संयोगे विप्रयोगश्च, मरणं च प्रतिक्षणम् । दारुणश्च विपाकोऽस्य, सर्वचेष्टानिवर्त्तनात् ॥७४॥ इति विज्ञातसंसारनैर्गुण्यः स्वत एव हि ५ । तद्विरक्तस्तत एव ६, तथा मन्दकषायभाक् ७ ॥७५॥ अल्पहास्यादिविकृतिः ८ कृतज्ञो ९ विनयान्वितः १० । सम्मतश्च नृपादीनामद्रोही ११-१२ सुन्दराङ्गभृत् १३ ॥७६॥ श्राद्धः १४ स्थिरश्च १५ समुपसंपन्नश्चेति १६ सद्गुणः । भवेद् योग्यः प्रव्रज्याया, भव्यसत्त्वोऽत्र शासने ॥७७॥ षड्भिः कुलकम् ॥ यतिरेवंविधो भव्यो, गुरोर्योग्यस्य सन्निधौ । विधिप्रव्रजितः शुद्धव्यवहाराज्जिनैर्मतः ॥७८॥ योग्यो गुरुस्तु पूर्वोक्तगुणैः सङ्गत एव हि । विधिप्रपन्नप्रव्रज्य १ आसेवितगुरुक्रमः २ ॥७९॥ अखण्डितव्रतो नित्यं ३, विधिना पठितागमः ४ । तत एवातिविमलबोधयोगाच्च तत्त्ववित् ५ ॥८०॥ उपशान्तश्च ६ वात्सल्ययुक्तः प्रवचनेऽखिले ७ । सर्वसत्त्वहितान्वेषी ८, आदेय ९ श्चानुवर्तकः १० ॥८१॥ गम्भीर ११ श्चाविषादी चोपसर्गादिपराभवे १२ । तथोपशमलब्ध्यादियुक्तः १३ सूत्रार्थभाषकः १४ ॥८२॥ स्वगुर्वनुज्ञातगुरुपद १५ श्चेति जिनैर्मतः । पादार्द्धगुणहीनौ च, यौग्यौ तौ मध्यमावरौ ॥८३॥ पञ्चभिः कुलकम् ॥ गुर्वनुज्ञोपधायोगो, वृत्त्युपायसमर्थनम् । ग्लानौषधादिदृष्टान्तात् , त्यागो गुरनिवेदनम् ॥८४॥ प्रश्नः साधुक्रियाख्यानं परीक्षाकण्ठतोऽर्पणम् । सामायिकादिसूत्रस्य, चैत्यनुत्यादि तद्विधिः ॥८५॥ युग्मम् ॥ सापेक्षो निरपेक्षश्च, यतिधर्मो द्विधा मतः । सापेक्षस्तत्र शिक्षायै, गुर्वन्तेवासिताऽन्वहम् ॥८६॥
D:\d-p.pm5\3rdproof