________________
[७८९
परिशिष्टम् [१] धर्मसंग्रहमूलश्लोकाः ॥]
संस्तारादानहानान्यप्रत्युपेक्ष्याप्रमृज्य च । अनादरोऽस्मृतिश्चेत्यतिचाराः पोषधव्रते ॥५७॥ सचित्ते स्थापनं तेन, स्थगनं मत्सरस्तथा । काललङ्घोऽन्यापदेश, इति पञ्चान्तिमे व्रते ॥५८॥ एतैविना व्रताचारो, गृहिधर्मो विशेषतः । सप्तक्षेत्र्यां तथा वित्तवापो दीनानुकम्पनम् ॥५९॥ नमस्कारेणावबोधः स्वद्रव्याधुपयोजनम् । सामायिकादिकरणं, विधिना चैत्यपूजनम् ॥६०॥ सम्यक् स्नात्वोचिते काले, संस्नाप्य च जिनान् क्रमात् । पुष्पाहारस्तुतिभिश्च, पूजयेदिति तद्विधिः ॥६१॥ आशातनापरिहारं, स्वशक्त्योचितचिन्तनम् । प्रत्याख्यानक्रियाऽभ्यर्णे, गुरोविनयपूर्वकम् ॥६२॥ धर्मोपदेशश्रवणमशनादिनिमन्त्रणम् । गत्वा यथोचिते स्थाने, धर्म्यमर्थार्जनं तथा ॥१३॥ मध्याह्नेऽर्चा च सत्पात्रदानपूर्वं तु भोजनम् । संवरणकृतिस्तद्विजैः, सार्द्ध शास्त्रार्थचिन्तनम् ॥६४॥ सायं पुनर्जिनाभ्यर्चा, प्रतिक्रमणकारिता । गुरोर्विश्रामणा चैव, स्वाध्यायकरणं तथा ॥६५॥ गत्वा गृहेऽथ कालेऽर्हद्गुरुस्मृतिपुरस्सरम् । अल्पनिद्रोपासनं च, प्रायेणाब्रह्मवर्जनम् ॥६६॥ निद्राक्षयेऽङ्गनाऽङ्गानामशौचादेविचिन्तनम् । इत्याहोरात्रिकी चर्या, श्रावकाणामुदीरिता ॥६७॥ एवं पर्वसु सर्वेषु , चतुर्मास्यां च हायने । जन्मन्यपि यथाशक्ति, स्वस्वसत्कर्मणां कृतिः ॥६८॥ विधिना दर्शनाद्यानां, प्रतिमानां प्रपालनम् । यासु स्थितो गृहस्थोऽपि, विशुद्धयति विशेषतः ॥६९॥ प्ररूपितो जिनैरेवं गृहिधर्मो विशेषतः । सतामनुष्ठेयतया, चारित्रगिरिपद्यिका ॥७॥ एनं धर्मं च निखिलं, पालयन् भावशुद्धितः । योग्यः स्याद् यतिधर्मस्य, मोचनात् पापकर्मणः ॥७१॥
D:\d-p.pm5\3rd proof