________________
७८६ ]
[ धर्मसंग्रहः
सदाऽनभिवेशश्च, विशेषज्ञानमन्वहम् । यथार्हमतिथौ साधौ दीने च प्रतिपन्नता ॥ १२॥ अन्योऽन्यानुपघातेन त्रिवर्गस्यापि साधनम् । अदेशाकालाऽचरणं बलाबलविचारणम् ॥१३॥ यथार्हलोकयात्रा च परोपकृतिपाटवम् ।
ह्री सौम्यता चेति जिनैः प्रज्ञप्तो हितकारिभिः ॥ १४॥ दशभिः कुलकम् ॥ एतद्युतं सुगार्हस्थ्यं यः करोति नरः सुधीः । लोकद्वयेऽप्यसौ भूरि, सुखमाप्नोत्यनिन्दितम् ॥१५॥
तस्मिन् प्रायः प्ररोहन्ति, धर्मबीजानि गेहिनि । विधिनोप्तानि बीजानि, विशुद्धायां यथा भुवि ॥१६॥ स आदिधार्मिकश्चित्रस्तत्तत्तन्त्रानुसारतः । इह तु स्वागमापेक्षं, लक्षणं परिगृह्यते ॥१७॥ स धर्मदेशनायोग्यो, मध्यस्थत्वाज्जिनैर्मतः । योगदृष्ट्युदयात् सार्थं, यद् गुणस्थानमादिमम् ॥१८॥ सा च संवेगकृत्कार्या, शुश्रूषोर्मुनिना परा । बालादिभावं संज्ञाय, यथाबोधं महात्मना ॥१९॥ संविग्नस्तच्छ्रुतेरेवं, ज्ञाततत्त्वो नरोऽनघः । दृढं स्वशक्त्या जातेच्छ:, संग्रहेऽस्य प्रवर्त्तते ॥२०॥ न्याय्यश्च सति सम्यक्त्वेऽणुव्रतप्रमुखग्रहः । जिनोक्ततत्त्वेषु रुचिः, शुद्धा सम्यक्त्वमुच्यते ॥२१॥ निसर्गाद्वाऽधिगमतो, जायते तच्च पञ्चधा । मिथ्यात्वपरिहाण्यैव, पञ्चलक्षणलक्षितम् ॥२२॥ योगवन्दननिमित्तदिगाकारविशुद्धयः । योग्योपचर्येति विधिरणुव्रतमुखग्रहे ॥२३॥ स्थूलहिंसादिविरतिं, व्रतभङ्गेन केनचित् । अणुव्रतानि पञ्चाहुरहिंसादीनि शम्भवः ॥२४॥ निरागोद्वीन्द्रियादीनां संकल्पाच्चानपेक्षया । हिंसाया विरतिर्या सा, स्यादणुव्रतमादिमम् ॥२५॥ द्वितीयं कन्यागोभूम्यलीकानि न्यासनिह्नवः । कूटसाक्ष्यं चेति पञ्चासत्येभ्यो विरतिर्मतम् ॥२६॥
D:\d-p.pm5\3rd proof