________________
परिशिष्टम्
[१]
धर्मसंग्रहमूलश्लोकाः ॥ प्रणम्य प्रणताशेषसुरासुरनरेश्वरम् । तत्त्वज्ञं तत्त्वदेष्टारं महावीरं जिनोत्तमम् ॥१॥ श्रुताब्धेः सम्प्रदायाच्च, ज्ञात्वा स्वानुभवादपि । सिद्धान्तसारं ग्रनामि, धर्मसङ्ग्रहमुत्तमम् ॥२॥ युग्मम् ॥ वचनादविरुद्धाद् यदनुष्ठानं यथोदितम् । मैत्र्यादिभावसम्मिश्र, तद्धर्म इति कीर्त्यते ॥३॥ स द्विधा स्यादनुष्ठातृगृहिव्रतिविभागतः । सामान्यतो विशेषाच्च, गृहिधर्मोऽप्ययं द्विधा ॥४॥ तत्र सामान्यतो गेहिधर्मो न्यायार्जितं धनम् । वैवाह्यमन्यगोत्रीयैः, कुलशीलसमैः शमम् ॥५॥ शिष्टाचारप्रशंसारिषड्वर्गत्यजनं तथा । इन्द्रियाणां जय उपप्लुतस्थानविवजनम् ॥६॥ सप्रातिवेश्मिके स्थानेऽनतिप्रकटगुप्तके । अनेकनिर्गमद्वारं गृहस्य विनिवेशनम् ॥७॥ पापभीरूकता ख्यातदेशाचारप्रपालनम् । सर्वेष्वनपवादित्वं नपादिषु विशेषतः ॥८॥ आयोचितव्ययो वेषो, विभवाद्यनुसारतः । मातापित्रर्चनं सङ्गः सदाचारैः कृतज्ञता ॥९॥ अजीर्णेऽभोजनं काले भुक्तिः सात्म्यादलौल्यतः । वृत्तस्थज्ञानवृद्धार्हा गर्हितेष्वप्रवर्त्तनम् ॥१०॥ भर्त्तव्यभरणं दीर्घदृष्टिर्धमश्रुतिर्दया । अष्टबुद्धिगुणैर्योग: पक्षपातो गुणेषु च ॥११॥
D:\d-p.pm5\3rd proof