________________
प्रशस्तिः ]
[७८१ तेषां विनेय उदितादरतो विववे, ग्रन्थं च मानविजयाभिधवाचकोऽमुम् । क्षुण्णं यदत्र मतिमन्दतया भवेत् तन्मेधाविभिर्मयि कृपां प्रणिधाय शोध्यम् ॥९॥ सत्तर्ककर्कशधियाऽखिलदर्शनेषु , मूर्धन्यतामधिगतास्तपगच्छधुर्याः । काश्यां विजित्य परयूथिकपर्षदोऽग्र्या, विस्तारितप्रवरजैनमतप्रभावाः ॥१०॥ तर्कप्रमाणनयमुख्यविवेचनेन प्रोद्बोधितादिममुनिश्रुतकेवलित्वाः । चक्रुर्यशोविजयवाचकराजिमुख्या, ग्रन्थेऽत्रमय्युपकृति परिशोधनाद्यैः ॥११।। बाल इव मन्दगतिरपि सामाचारीविचारदुर्गम्ये । अत्राभूवं गतिमांस्तेषां हस्तावलम्बन ॥१२॥ [सिद्धान्तव्याकरणच्छन्दःकाव्यादिशास्त्रनिष्णातैः । लावण्यविजयवाचकशकैः समशोधि शास्त्रमिदम् ॥१३।।] वर्षे पृथ्वीगुणमुनिचन्द्र १७३१ प्रमिते च माधवे मासे । शुद्धतृतीयादिवसे यत्नः सफलोऽयमजनिष्ट ॥१३।। किञ्च समग्रदेशोत्तमगुजरषु , अहम्मदाबादपुरे प्रधाने । श्रीवंशजन्मा मनिआभिधानो, वणिग्वरोऽभूच्छुभकर्मकर्ता ॥१४॥ नित्यं गेहे दानशाला विशाला, तीर्थोन्नत्या तीर्थराजादियात्रा । सप्तक्षेत्र्यां वित्तवापश्च यस्य, स्तोतुं प्रायो ह्यस्मदाद्यैरशक्यः ॥१५॥ साधुः श्रीशान्तिदासः प्रवरगुणनिधिस्तत्सुतोऽभूदुदारो, धात्र्यां विख्यातनामा जगडुसमधिकाऽनेकसत्कृत्यकृत्या(कर्ता) । रङ्कानामन्नवस्त्रौषधसुवितरणाद् येन दुष्कालनाम, प्रध्वस्तं शस्तभूता बहुविधिमहिता ज्ञातिसाधर्मिकाश्च ।।१६।। पुत्रन्यस्तसमस्तगेहकरणीयस्य स्फुटं वार्द्धके, सिद्धान्तश्रवणादिधर्मकरणे बद्धस्पृहस्यानिशम् ।
१. C. प्रतौ 'परिशोधनाद्यैः' पाठस्योपरि इदृशं चिह्नम् कृत्वा पार्श्वभागे 'किलयोजनाद्यैः' इति लिखितमस्ति । परिशोधनाद्यैः [किलयोजनाद्ये]-मु० ॥ २. L.P. | मद्गतिरपि (बालक इव मन्दगतिः)-मु० ॥ ३. गाथेयं C. प्रतौ पार्श्वभागे अस्ति, L.P. प्रत्योर्नास्ति ॥ ४. C. संशो० । वर्षे दिग्गजगुणमुनिचन्द्र १७३८ प्रमिते-P. संशो० ॥ ५. किञ्च-C. प्रतौ पार्श्वभागे, P. प्रतौ नास्ति ॥ ६. अहम्मदावादपुरे समग्रदेशस्फुरद्गुर्जरदेशमण्डने-P. ।। ७. P.C. । मनिआ-मु० ॥ ८. C. संशो० । ख्यातु-P. || ९. कृत्या-P.C. || १०. P.C. । जाति-मु० ॥
D:\new/d-3.pm5\3rd proof