SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ७८२] [धर्मसंग्रहः-पञ्चमोऽधिकारः सद्धर्मद्वयसंविधानरचनाशुश्रूषणोत्कण्ठिनस्तस्य; प्रार्थनयाऽस्य गुम्फनविधौ जातः प्रयत्नो मम ॥१७॥ ज्ञानाराधनमतिना, विनयादिगुणान्वितेन वृत्तिरियम् । प्रथमादर्श लिखिता, गणिना कान्त्यादिविजयेन ॥१८।। धात्री संपद्विधात्री भुजगपतिधृता सार्णवा यावदास्ते, प्रोच्चैः सौवर्णशृङ्गोल्लिखितसुरपथो मन्दराद्रिश्च यावत् । विश्वं विद्योतयन्तौ तमनु शशिरवी भ्राम्यतश्चेह यावत् ; ग्रन्थो व्याख्यायमानो विबुधजनवरैर्नन्दतादेष तावत् ॥१९॥ ये ग्रन्थार्थविभावनातिनिपुणाः सम्यग्गुणग्राहिणः, सन्तः सन्तु मयि प्रसन्नहृदयास्ते किं खलैस्तैरिह । येषां शुद्धसुभाषितामृतरसैः सिक्तोऽपि चित्ते भृशं; ग्रीष्मौ मरुभूमिकास्विव पयोलेशो न संलक्ष्यते ॥२०॥ विलोक्यानेकशास्त्राणि, विहिताद् ग्रन्थतस्त्विह । प्रेत्यापि बोधिलाभोऽस्तु , परमानन्दकारणम् ॥२१॥ इति महोपाध्यायश्रीमानविजयप्रभूपज्ञो धर्मसंग्रहः समाप्तिमापत्तरां श्रेयस्ततिकरः ॥ इति उपाध्यायश्रीमन्मानविजयप्रणीतं श्रीमद्यशोविजयमहोपाध्यायसंस्कृतयोजितं श्रीधर्मसंग्रहस्य उत्तरार्द्ध सम्पूर्णम् ॥ १. इति प्रशस्तिः-C. | इति प्रशस्तिः । भूयुगमुनीन्दुप्रमिते लिखिता श्रीराजसंज्ञिके नगरे । श्रीधर्मसंग्रहवृत्तिः सूत्रान्विता हस्तरुचिनैषा ॥२२॥ समाप्तश्चायं सवृत्तिर्द्धर्मसंग्रहग्रन्थः ॥ श्रीरस्तु । शुभं भवतु-P. ॥ D:\new/d-3.pm53rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy