________________
४६४]
[धर्मसंग्रह:-तृतीयोऽधिकारः यतिधर्मयोग्यता च कतिपयगुणसमूहरूपा, अतस्तानेव गुणान्नामग्राहं गुणिमुखेन षड्भिः श्लोकैः प्रदर्शयति । तथाहि -
आर्यदेशसमुत्पन्नः १, शुद्धजातिकुलान्वितः २ । क्षीणप्रायाशुभकर्मा ३, तत एव विशुद्धधीः ४ ॥७२॥ दुर्लभं मानुषं जन्म, निमित्तं मरणस्य च । सम्पदश्चपला दुःखहेतवो विषयास्तथा ॥७३॥ संयोगे विप्रयोगश्च, मरणं च प्रतिक्षणम् । दारुणश्च विपाकोऽस्य, सर्वचेष्टानिवर्त्तनात् ॥७४॥ इति विज्ञातसंसारनैर्गुण्यः स्वत एव हि ५ । तद्विरक्तस्तत एव ६, तथा मन्दकषायभाक् ७ ॥७५॥ अल्पहास्यादिविकृतिः ८ कृतज्ञो ९ विनयान्वितः १० । सम्मतश्च नृपादीनामद्रोही ११-१२ सुन्दराङ्गभृत् १३ ॥७६॥ श्राद्धः १४ स्थिरश्च १५ समुपसंपन्नश्चेति १६ सद्गुणः । भवेद् योग्यः प्रव्रज्याया, भव्यसत्त्वोऽत्र शासने ॥७७॥ षड्भिः कुलकम् ॥
तथाहीति उक्तस्योपदर्शने निपातसमुदायः, 'इति' अमुना प्रकारेण सन्तोविद्यमाना गुणा यस्यासौ सद्गुणो 'भव्यसत्त्वो' भव्यप्राणी प्रव्रज्या-प्रव्रजनं पापेभ्यः प्रकर्षेण शुद्धचरणयोगेषु गमनमित्यर्थः, तस्याः प्रव्रज्यायाः, 'योग्यः' अर्हो 'भवेत्' जायतेत्यन्तेन सम्बन्धः । सा च द्रव्यतः चरकादीनामपि भवतीत्यत उक्तम् –'अत्र' इति अस्मिन् 'शासने' प्रवचने जिनशासन इत्यर्थः । यतः - "नामाइचउब्भेआ, एसा दव्वंमि चरगमाईणं। भावेण जिणमयंमि उ, आरंभपरिग्गहच्चाओ" ॥१॥[प.व./६ ] इति ।
स च यथा 'आर्यदेशसमुत्पन्नः' इत्यादि तत्र आर्यदेशा:-जिनचक्रयाद्युत्तमपुरुषजन्मभूमयस्ते च सङ्ख्याया मगधाद्याः सार्द्धपञ्चविंशतयः यथा - "रायगिह मगह १ चंपा अंगा २ तह तामलित्ति वंगा य ३। कंचणपुरं कलिंगा ४ वाराणसि चेव कासी अ५ ॥१॥[प्र.सू.प.१,सू.१०२/गा.११२]
१. L.P.C. I जायतेत्यन्ते(ने)न-मु० ॥ २. P. । इत्यादि तत्र-मु० C. नास्ति ॥ ३. “पञ्चविंशत्यो (ति) मु०॥
D:\netaidphold
pat gufoof