SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ न्यायविशारदन्यायाचार्यश्रीमद्यशोविजयप्रणीतान्तर्गतटिप्पणीसमेत: श्रीमन्मानविजयमहोपाध्यायप्रणीतः स्वोपज्ञवृत्तिविभूषितः धर्मसंग्रहः ॥ [ तृतीयोऽधिकारः] ऐं नमः ॥ अथ यतिधर्मव्याख्यानावसरस्ततो विशेषतो गृहिधर्मफलोपवर्णनमुखेन तमेव प्रस्तौति - एनं धर्मं च निखिलं, पालयन् भावशुद्धितः । योग्यः स्याद् यतिधर्मस्य, मोचनात् पापकर्मणः ॥७१॥ 'एनम्' अनन्तरोदितं 'धर्म' विशेषतो गृहिधर्मम् , 'चः' समुच्चये, कीदृशं तम्?'निखिलं' समस्तं सम्यक्त्वप्रभृत्येकादशप्रतिमापर्यन्तमित्यर्थः, पालयन्' अनुचरन् , पालनं च द्रव्यतोऽपि स्यादित्यत आह -'भावशुद्धितः' इति भावः-तदावरणक्षयोपशमसमुत्थ आत्मपरिणामविशेषस्तस्य विशुद्धिः-स्वच्छता प्रकर्षरूपा तस्याः सकाशादित्यर्थः। सकीदृग् भवति? इत्याह–'यतिधर्मस्य योग्य' इति, यतिः-अर्होऽर्हसमीपे विधिप्रव्रजित इति वक्ष्यमाणलक्षणस्तस्य धर्म:-मूलोत्तरगुणाचारस्तस्य योग्यः-तदभ्युपगमपरिपालनसमर्थः स्याद्' भवेत् कस्माद्धेतो: ?-'पापकर्मणः' चारित्रप्रतिबन्धकमोहनीयप्रकृतिरूपस्य 'मोचनात्' पृथग्भावात् , क्षायोपशमिकादिपरिणामेनोदितावस्थत्वपरित्यागादित्यर्थः । अत एव श्रेयोदानाशिवक्षपणाभ्यां दीक्षायोग्यताऽस्य घटते, तदुक्तं षोडशके - "श्रेयोदानादशिवक्षपणाच्च सतां मतेह दीक्षेति । सा ज्ञानिनो नियोगाद्यथोदितस्यैव साध्वीति" ॥१॥ [ षोड./१२-२] ज्ञानित्वं च गुरुचरणसेवारतानां दृढसम्यग्दर्शनानां परिपालितनिखिलश्राद्धसामाचारीसमुल्लसितसंवेगपरिणामानां सुव्यक्तमेव ॥७१॥ D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy