________________
७६०]
[धर्मसंग्रह:-तृतीयोऽधिकारः __ आसुर्यपि सदा विग्रहशीलत्व १ संसक्ततपो २ निमित्तकथन ३ निष्कृपता ४ निरनुकम्पत्व ५ भेदेन पञ्चविधा । उक्तं च - "सइविग्गहसीलत्तं १, संसत्ततवो २ निमित्तकहणं च ३ । निक्किवया ४ विअ अवरा, पंचमगं निरणुकंपत्तं ५" ॥१॥ [प्र.सा./६४५ ] इति ।
तत्र पश्चादननुतापितया क्षामणादावपि प्रसत्त्यप्राप्त्या च विरोधानुबन्धो विग्रहशीलत्वम् , आहाराद्यर्थं तपः संसक्ततपः, शेषं स्पष्टम् ।
सांमोही चोन्मार्गदेशना १ मार्गदूषण २ मार्गविप्रतिपत्ति ३ मोह ४ मोहजनन ५ भेदैः पञ्चप्रकारा । उक्तं च"उम्मग्गदेसओ १ मग्गनासओ २ मग्गविपडिवत्ती ३ (य)। मोहेण ४ मोहइत्ता ५ संमोहं भावणं कुणइ" ॥१॥ [पञ्च./१६५५] इति ।
तत्र ज्ञानाद्याचारलक्षणं स्वप्रतिपन्नमार्गमदूषयत एव तद्विपरीतदेशनमुन्मार्गदेशना १, भावमार्गस्य तत्प्रतिपन्नसाध्वादीनां च दूषणं मार्गदूषणम् २, असदूषणैर्भावमार्गं दूषयित्वा जमालिवद् देशत उन्मार्गप्रतिपत्तिर्मार्गविप्रतिपत्तिः ३, सूक्ष्मभावेषु परतीर्थिकसमृद्ध्यालोकने च मोहनं मोह: ४, स्वभावेन कपटेन वा कुमार्गेषु परस्य मोहनं मोहजनन ५ मिति सांमोही। एताश्च पञ्चविंशतिरप्यशुभफलाः । यतः - "एआओ भावणाओ, भाविता देवदुग्गइं जंति । तत्तो विचआ संतो, पडंति भवसागरमणंतं" ॥१॥[पञ्च./१६६१] इति ।
यद्यप्येताश्चारित्रिणां सर्वदैव वास्तथाप्यनशने चारित्रस्यातिविशुद्ध्यापादनाय विशेषतो वा इत्यत्रैवोपन्यस्ताः । तदुक्तम् – "एआओ अविसेसेण, परिहरई चरणविग्घभूआओ। एअणिरोहाउ च्चिअ, सम्मं चरणंपि पावेति" ॥१॥[पञ्च./१६६२]
'पाविति' इत्यत्र प्रस्तुतोऽनशनीतिशेषः १, ननु नैताश्चारित्रविरुद्धा "जो संजओ वि एआसु'[पञ्च०१६२९] इत्यादिना ग्रन्थेन तथा भणनादिति चेदुच्यते, व्यवहारनयाच्चरणमेतासु भवति, यदसंक्लिष्टोऽपि कश्चित् कन्दर्पादीन् सेवते, नतु निश्चयनयमतेन चरणमेतासु , यतोऽस्य नियमत एव निरतिचारं गुणस्थानमिष्टं सदौचित्यप्रवृत्त्या । यतः सूत्रेऽप्युक्तम् – "जो जहवायं न कुणइ, मिच्छट्टिी तओ हु को अन्नो ? । वद्धेड अमिच्छत्तं परस्स संकं जणेमाणो" ॥१॥[पिण्डनि./१८६] इति ।
१. य-L.P.C. नास्ति ।
D:\new/d-3.pm53rd proof