________________
संक्लिष्टभावनास्वरूपम् -श्लो० १५२॥]
[७५९ "कन्दप्पे कुक्कुइए, दुअसीले आवि हासणकरे अ।
विम्हाविंतो अ परं, कंदप्पं भावणं कुणइ" ॥१॥[पञ्च./१६३० ] त्ति । एषु चाट्टहासः स्वरूपेण हासो गुदिनापि निष्ठुरवक्रोक्त्यादयः कन्दर्पकथाकथनं तदुपदेशस्तत्प्रशंसा च कन्दर्पशब्देनोच्यन्ते । कौकुच्यं -भाण्डचेष्टा, सा च कायवाक्सम्बन्धिभेदाद् द्विविधा, तत्राद्या भ्रूनयनादिदेहावयवविकारैः स्वयमहसता परस्य हासनम् , द्वितीया तु हास्यकारवचनैरिति २, द्रुतशीलत्वं चापर्यालोच्य संभ्रमावेशात् द्रुतं द्रुतं भाषणं तथा द्रुतं द्रुतं गमनं द्रुतं द्रुतं कार्यकरणं, स्वभावस्थितेनापि तीव्रोद्रेकवशाद् दर्पण स्फुटनमिवेति च ३, हास्यं च विचित्रवेषवचनैः स्वस्य परेषां हासनं भाण्डवत् परच्छिद्रान्वेषणं चेति ४, विस्मापनं चेन्द्रजालादिकुतूहलैः प्रहेलिकाकुहेडकादिभिश्च स्वयमविस्मयमानेन परेषां मनोविभ्रमोत्पादनम् ५ इति पञ्चविधा कान्दी भावना ।
कैल्बिषिकी च द्वादशाङ्गीरूपश्रुतज्ञान १ केवलि २ धर्माचार्य ३ सर्वसाधूनामवर्णवदनं ४ स्वदोषनिगृहने च मायित्वमिति ५ पञ्चविधा । यदुक्तम् -
"णाणस्स केवलीणं, धम्मायरिआण सव्वसाहणं ।
भासं अवण्णमाई, किव्विसिअंभावणं कुणइ" ॥१॥[पञ्च./१६३६ ] इति । आभियोगिक्यपि कौतुक १ भूतिकर्म २ प्रश्न ३ प्रश्नाप्रश्न ४ निमित्तैः ५ आजीवनेन पञ्चविधा । उक्तं च -
"कोऊअ १ भूइकम्मे २, पसिणा ३ इअरे ४ णिमित्त आजीवी ५ ।
इद्धीरससायगुरुओ,अभिओगं भावणं कुणइ"॥१॥[पञ्च./१६४२] इति। तत्र कौतुकं बालादीनां रक्षार्थं स्नपन-करभ्रमण-थुथुक्करण-होम-धूपादि १, भूतिकर्म वसतिशरीरभाण्डरक्षार्थं भस्मना मृदा वा सूत्रेण वा परिवेष्टनकरणं २, प्रश्न: परस्य लाभालाभादिप्रच्छनं, स्वयं वाऽङ्गष्ठदर्पणखड्गतोयादिदर्शनं ३, प्रश्नाप्रश्नः स्वयं विद्यया कथितस्यान्यस्मै कथनं ४, निमित्तं च त्रैकालिकवस्तुपरिज्ञानहेतु नविशेष: ५, एतानि च गौरवादिनिमित्तं कुर्वाणस्य साधोरभियोगनिमित्तकर्मकारणानि भवन्ति, अपवादतस्तु निःस्पृहवृत्त्या तीर्थोन्नतिकरणनिमित्तं कुर्वाणस्याराधकत्वमुच्चैर्गोत्रबन्धश्च भवति । उक्तं च -
"एआणि गारवट्ठा, कुणमाणो आभिओगिअं बंधे।
बीअं गारवरहिओ, कुव्वइ आराहगुच्चं च" ॥१॥[पञ्च./१६४८ ] इत्याभियोगिकी।
१. दवसीले-इति पञ्चवस्तुके ।। २. L.P.C. I पूति-मु० ॥ ३.C. । निःस्पृहवृत्त्या-L.P. नास्ति ।
D:\new/d-3.pm5\3rd proof