SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ७५८ ] [ धर्मसंग्रहः - तृतीयोऽधिकारः न पुनरेवमेव सुस्थावस्थायामिति । व्यवहारभाष्ये तु सर्वसामान्यग्लानप्रतिक्रिया व्यवस्थार्थमियं गाथा लिखिता 44 'छम्मासा आयरिओ, कुलं च संवच्छ्राइं तिणि भवे । संवच्छरं गणो खलु, जावज्जीवं भवे संघो" ॥१॥[बृ.क.भा./२००१] व्याख्या –प्रथमत आचार्य: षण्मासान् ग्लानस्य चिकित्सां कारयति, तथाप्यप्रगुणीभूतं कुलस्य समर्पयति, ततः कुलं त्रीन् संवत्सरान् ततः संवत्सरं गणः, तथाप्यनिवर्त्तिते रोगे सङ्घस्य समर्पयति, ततः सङ्घो यावज्जीवं शुद्धेन तदभावेऽशुद्धेनापि चिकित्सको भवति, एतच्चोक्तं भक्तविवेकं कर्त्तुमशक्नुवतो, यः पुनः कर्तुं शक्तस्तेन प्रथमतोऽष्टादश मासान् चिकित्सा कारयितव्या विरतिसहितजीवितस्य पुनः संसारे दुष्प्रापत्वात्, तदनन्तरं प्रगुणीभवति तदा भव्यं, न चेत् तर्हि भक्तविवेकः कर्त्तव्य इति ॥१५१॥ साम्प्रतं तत्र विशेषतो वर्जनीयाः संक्लिष्टा भावना आह - कान्दप कैल्बिषिकी चाभियोगिक्यासुरी तथा । सांमोही चेति पञ्चानां, भावनानां विवर्जनम् ॥१५२॥ कान्दर्पः – कामस्तत्प्रधाना निरन्तरनर्मादिनिरततया विटप्राया देवविशेषास्तेषामियं कान्दर्पी, एवं किल्बिषाः - पापा अत एवास्पृश्यादिधर्मका देवाः किल्बिषास्तेषामियं कैल्बिषिकी, आ-समन्तात् युज्यन्ते - प्रेष्यकर्मणि व्यापार्यन्ते इत्याभियोगाः - किङ्करस्थानीया देवविशेषास्तेषामियम् आभियोगिकी, असुरा - भवनवासिदेवविशेषास्तेषामियं आसुरी, तथा संमुह्यन्तीति संमोहा - मूढात्मानो देवविशेषास्तेषामियं सांमोही, इति 'पञ्चानां ' पञ्चसंख्यानां ‘भावनानां ' तत्तत्स्वभावाभ्यासरूपाणां 'विवर्जनं' परिहारः प्रक्रमादनशने, विशेषेण तत्र वर्जनीयत्वात्, तत् सापेक्षयतिधर्मो भवतीति सम्बन्धः । चारित्रवतोऽपि संक्लेशविशेषेण तत्तद्भावनाकरणे तादृशतादृशदेवेषु गमनात् । उक्तं च - "जो संजओ वि एआसु, अप्पसत्थासु वट्टइ कर्हिचि । सो तव्विहेसु गच्छइ, सुरेसु भइओ चरणहीणो" ॥१॥ [पञ्च./१६२९ ] अत्र 'भइओ चरणहीणो 'त्ति सर्वथा चारित्रसत्ताविकलो द्रव्यचरणहीनो वा भाज्य:, कदाचित् तादृग्देवेषु कदाचिच्च नारकतिर्यक्कुमानुषेष्विति । एताश्च पञ्चापि भावनाः प्रत्येकं पञ्चविधाः, तत्र कान्दर्पी कन्दर्प १ कौकुच्य २ द्रुतशीलत्व ३ हास्य ४ परविस्मय५करणेन पञ्चविधा भवति । यतः - D:\new/d-3.pm5\ 3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy