________________
भक्तपरिज्ञास्वरूपम् -श्लो० १५०/१५१॥]
[७५७ अग्रद्वारमूलावस्थायकाः ६, प्रत्याख्यातेऽप्याहारे परीषहपीडितस्याहारमभिलषत आर्त्तध्यानवारणनिमित्तं परीक्षापूर्वं तदुचितभक्ताऽऽनेतारः ७, पानानयनार्हाः ८, उच्चारपरिष्ठापकाः ९, प्रश्रवणपरिष्ठापकाः १०, बहिर्द्धर्मकथकाः ११, दिशासु चतसृष्वपि क्षुद्रोपद्रववारणार्थं समर्थाः सहस्रयोधिप्रमुखाः १२, एतेषां द्वादशानां पदानां प्रत्येकं साधुचतुष्कसद्भावाच्चतुष्टयेन गुण्यमानानां निर्यामकसंख्या सूत्रनिर्दिष्टाऽष्टचत्वारिंशत्संख्या भवति । एतावतां चाभावे एकैकहान्या जघन्यतो द्वावश्यं युज्येते, तत्रैकोऽनशनिनः पार्श्वस्थायी अन्यश्च जलाद्यन्वेषको भक्तपानाद्यर्थं पर्यटतीति, न पुनरेकेन निर्यामकेन कर्त्तव्याऽनशनप्रतिपत्तिः । यदुक्तम् -
"एगो जइ निज्जमगो, अप्पा चत्तो परो पवयणं च ।
सेसाणमभावे विहु , ता बीओऽवस्स कायव्वो"॥१॥[आ.प./४११] इति । इदं च मरणं सर्वेषामार्यिकादीनां भवति । यदुक्तम् -
"सव्वा वि अ अज्जाओ, सव्वे वि अ पढमसंघयणवज्जा ।
सव्वे वि देसविरया, पच्चक्खाणेण उ मरंति" ॥१॥ [ उत्त.५/२३.] अत्र च प्रत्याख्यानशब्देन भक्तपरिजैवोक्ता, एतस्य त्रयस्यापि मरणस्य फलं मुक्तिर्वैमानिकता वेति । यदुक्तम् -
"एअं पच्चक्खाणं, अणुपालेऊण सुविहिओ सम्म ।
वेमाणिओ व देवो, हविज्ज अहवा वि सिज्झिज्जा" ॥१॥[उत्त.५/२वृ.] इत्युक्तमभ्युद्यतमरणस्वरूपम् । अत्र च प्रवचनसारोद्धारोक्तः पुरुषविशेषप्रतिक्रियाविषयोऽयं विशेषः -
"जावज्जीवं गुरुणो, असुद्धसुद्धेहिं वा वि कायव्वं ।
वसहे बारस वासा, अट्ठारस भिक्खुणो मासा" ॥१॥[प्र.सा./८६३] व्याख्या -शुद्धैरशुद्धैरपि वाऽशनपानभेषजादिभिराचार्यादीनां साधुश्रावकलोकेन परिपालनं कर्त्तव्यं, तत्र गुरोर्यावज्जीवं, सर्वस्यापि गच्छस्य तदधीनत्वात् , यथाशक्ति सूत्रार्थनिरन्तरप्रवृत्तेश्च, उपाध्यायादीनां द्वादश वर्षाणि, ततः परमसाध्यतायां शक्तौ च सत्यां भक्तविवेकः, एतावता कालेनान्यस्यापि तत्स्थानीयस्योत्थानात् , एवं भिक्षोरष्टादश मासान् परिपालनं, शेषं प्राग्वत् । इदं च शुद्धाशुद्धाशनादिभिः परिपालना गुर्वादीनां रोगाद्यभिभूतवपुषां क्षेत्रकालादिपरिहाणिवशतो भक्त्याद्यलाभवतां च विधेया,
१. निर्यामकानां सङ्ख्या -P. संशो० ॥ २. इत्यर्थः भवति-L.P.C. ||
D:\new/d-3.pm53rd proof