________________
७५६]
[धर्मसंग्रहः-तृतीयोऽधिकारः सहितानां सर्वाहारत्यागाद् भवति, अयं भावः -अस्य प्रतिपत्ता तेनैव क्रमेणायुषः परिहाणिमवबुध्य तादृशसंहननाभावात् पादपोपगमनं कर्तुमशक्तः स्तोककालं जीवितानुसारेण संलेखनां कृत्वा प्रव्रज्याकालादारभ्य च विकटनां दत्त्वा चतुविधाहारं नियमात् प्रत्याख्याति, तथाविध एव च स्थण्डिले एकाकी छायात उष्णं उष्णतश्च छायां संक्रामन्निङ्गितदेशे सचेष्टः सम्यग् ध्यानपरायणः प्राणान् जहाति, अयं च परकृतपरिकर्मरहितः, स्वयं तु तत् करोति उक्तं च - "उव्वत्तइ परिअत्तइ, काइअमाईसु होइ उ विभासा। किच्चं पिअप्पणु च्चिअ, जुज्जइ णिअमेण धिइबलिओ" ॥१॥[पञ्च./१६२५] इति इङ्गिनीस्वरूपं ॥१५०॥ ___ तथा सर्वस्य चतुर्विधस्य वा-अथवा त्रिविधस्य पानकरहितस्य ‘आहारस्य परित्यागाद्'-वर्जनाद्धेतोभक्तपरिज्ञाख्यं–भक्तपरिज्ञानामकमुक्तलक्षणं मरणं भवेत् - स्यादिति क्रियाऽन्वयः । तच्च केषां भवति? इत्याह –'सपरिकर्मणां' वैयावृत्त्यसहितानां, परिकर्म च स्वकृतमिङ्गिनीमरणेऽप्यस्तीत्यत आह –'द्विधा' इति द्वाभ्यां प्रकाराभ्यां स्वयं परेभ्योऽपि च परिकर्मकारिणामित्यर्थः । अत्रायं भावः -[यः] प्रव्रज्याकालादारभ्य विकटनां दत्त्वा पूर्वं शीतलोऽपि परलोकं प्रति पश्चात्काले संजातसंवेगो यथोचितां च संलेखनां कृत्वा गच्छमध्यवर्ती समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीरोपकरणममत्वस्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याख्याय स्वयमेवोद्ग्राहितनमस्कार: समीपवर्तिसाधुदत्तनमस्कारो वोद्वर्त्तना-परिवर्तनादि कुर्वाणः समाधिना कालं करोति तस्य भक्तप्रत्याख्यानम् , अयं च परेभ्य परिकर्मणां कारयति, यत उत्कर्षतोऽस्याष्टचत्वारिंशन्निर्यामका भवन्ति । तथा चोक्तम् – "उव्वत्त ४ दार ४ संथार ४ कहग ४ वाई अ ४ अग्गदारंमी ४ । भत्ते ४ पाण ४ विआरे ४ कहग ४ दिसा ४ जे समत्था य ४ ॥१॥[प्र.सा./६२९] एएसिं तु पमाणं, चउक्कगेणं गुणिज्जमाणाण । निज्जामयाण संखा, होइ जहा समयनिद्दिवा" ॥२॥[प्र.सा./६३०]
व्याख्या-स्वस्मिन् भक्त्यभावे उद्वर्त्तनादिशरीरपरिचेष्टकारिणः १, जनसंमर्दरक्षणार्थं अभ्यन्तरद्वारमूलस्थायिनः २, सुखस्पर्शादिगुणोपेतसंस्तारककर्तारः ३, अनशनिपुरतः संवेगवृद्ध्यर्थं धर्मकथकाः ४, कुमतिवारणार्थं वादिनः ५, प्रत्यनीकादिप्रवेशरक्षार्थम्
१. L.P. I तत्-मु० C. नास्ति ।। २. अप्पण प०व०मु० ॥३. जुंजइ प०व०मु० ॥ ४. यः-L.P.C. नास्ति ।। ५. L.P.C. । हार-मु० ॥ ६. इतोऽग्रे मु० मध्ये इयान्-पाठ: दृश्यते, L.P.C. न दृश्यते ॥
D:\new/d-3.pm53rd proof