________________
पादपोगमनादिस्वरूपम् -श्लो० १५०/१५१॥]
[७५५ आहारस्य परित्यागात् , सर्वस्य त्रिविधस्य वा ।
भवेद् भक्तपरिज्ञाख्यं, द्विधा सपरिकर्मणाम् ॥१५१॥ युग्मम् । 'तत्र' तस्मिन् त्रिविधे मरणे आद्यं'(आदिम ) पादपोपगमनं आद्यसंह[ न ]निनामेव वज्रऋषभनारासंहननवतामेव, सर्वधनादित्वादिन् , 'अचेष्टने' चेष्टाभावे सति सर्वथा चेष्टानिरोधे सतीत्यर्थः, 'आहारवर्जनात्' सर्वाहारत्यागात् चतुर्विधाहारप्रत्याख्यानेनेत्यर्थः, भवतीतिक्रियान्वयः । अत्रायं भाव:-पूर्वोक्तप्रकारेणात्मानं द्रव्यतो भावतश्च संलिख्य पीठफलादि प्रातिहारिकं च प्रत्यर्प्य क्षमयित्वा च यथार्ह गुर्वादीन् शेषांश्च साधून् गुरुनिष्ठितान् धर्मे उद्यमितव्यं, संयोगा वियोगान्ता इत्युपबंह्य वन्दित्वा च देवान् गुर्वादींश्च गुरुसमीपे चतुर्विधाहारं प्रत्याख्याति, ततः समभावभावितात्मा निरीहः सन् गिरिकन्दरं गत्वा त्रसस्थावररहिते स्थण्डिले दण्डायतादि स्थानं स्थित्वोन्मेषाद्यभावात् पादपवन्निश्चेष्टो यावज्जीवं तिष्ठतीति पादपोपगमनाख्यानशनस्वरूपं, तदुपलक्षितं मरणमपि तदेवेत्यग्रेऽपि ज्ञेयम् । एतच्च द्विविधं –निर्व्याघातं सव्याघातं चेति, तत्राद्यं प्रक्रान्तमेव । यतः -
"णिव्वाघाइअमेअं, भणिअं इह पक्कमाणुसारेणं।
संभवइ इअरं पि हु , भणिअमिअं वीअरागेहिं" ॥१॥[पञ्च./१६१९] तथा- "निष्फाइआ य सीसा, गच्छो परिपालिओ महाभागो ।
अब्भुज्जुओ विहारो, अहवा अब्भुज्जुअं मरणं" ॥२॥[ ] इति । सव्याघातं तु सत्यप्यायुषि समुपजातव्याधिविधुरस्य सिंहाद्यभिभवादुत्पन्नमहावेदनस्य वा ज्ञातोपक्रमस्य गीतार्थस्य भवति । यतः -
"सीहाईहिंऽभिभूओ, पाओवगमं करेइ थिरचित्तो ।
आउंमि पहुप्पंते, विआणिउं णवरि गीअत्थो" ॥१॥[पञ्च./१६२०] 'विआणिउं' इति विज्ञायोपक्रममिति । एतच्च द्विविधमपि चतुर्दशपूर्विभिः समं व्युच्छिन्नं । यदुक्तम् -
“पढमंमि अ संघयणे, वट्टते सेलकुड्डसामाणा।
तेसि पि अ वोच्छेओ, चउद्दसपुव्वीण वोच्छेए" ॥१॥ [व्य.भा.१०५३७] इति पादपोगमनस्वरूपम् । तथा इङ्गिनीमरणम् उक्तलक्षणं चेष्टावतां परिमितचेष्टा
१. आदिम-L.P.C. नास्ति ॥ २. संहनिनामेव-L.P.C. || ३. 'सर्वधनादेरिन्' सिद्धहेम० ७।२।५९ इति सूत्रेण ॥ ४. P.C. | सीहाईऽभि मु० । सीहाईअभि पञ्चवस्तुके ।। ५. L.P. I उक्तलक्षणं-मु० नास्ति ॥
D:\new/d-3.pm5\3rd proof