________________
७५४]
[ धर्मसंग्रहः - तृतीयोऽधिकारः द्वन्द्वस्तेष्वाशंसा –वांछा ‘ऐहिकामुष्मिकाशंसा, ऐहिकेष्वाशंसा प्रथमोऽतिचारः १ आमुष्मिकेष्वाशंसा च द्वितीयः २ इति भाव:, तथा जीवितं च कालश्चेति द्वन्द्वस्तयोराशंसा, तत्र जीवितं –प्राणधारणं तत्र, पूजाविशेषदर्शनात् प्रभूतपरिवारादिविलोकनात् सर्वलोकश्लाघाश्रवणाच्च एवं मन्यते ‘जीवितमेव श्रेयः, प्रत्याख्यातचतुर्विधाहारस्यापि यत एवंविधा मदुद्देशेनेयं विभूतिर्वर्त्तते' इत्याशंसेति तृतीयः ३ । कालो - मरणं तत्र यदा न कश्चित् तं प्रतिपन्नानशनं प्रति सपर्यायै आद्रियते, न च कश्चिच्छ्लाघते, तदा तस्यैवंविधश्चित्तपरिणाम जायते 'यदि शीघ्रम् म्रिये तदा श्रेयः' इत्याशंसेति चतुर्थः ४ तथा निदानं च - अस्मात् तपसो दुरनुचराज्जन्मान्तरे चक्रवर्ती वासुदेवो महामण्डलेश्वरः सुभगो रूपवान् स्यामित्यादिप्रार्थनेति पञ्चमः ५ ॥१४८॥
इत्युक्ता संलेखनातिचाराः । साम्प्रतं संलेखनान्तरकर्त्तव्यमाह -
मरणस्याभ्युद्यतस्य, प्रपत्तिर्विधिना ततः ।
तदप्युक्तं पादपोपगमनादित्रिभेदकम् ॥१४९॥
‘ततः’ संलेखनाकरणान्तरम् 'अभ्युद्यतस्य मरणस्य' पण्डितमरणस्य 'प्रपत्तिः ' अभ्युपगमः सापेक्षयतिधर्मो भवतीति सम्बन्धः । तच्च कतिविधं भवति ? इत्याह – 'तदपि ' - इत्यादि तदपि अभ्युद्यतमरणं, न केवलं संलेखनैवेत्यपिशब्दार्थः । 'पादपोपगमनादित्रिभेदकं' पादपोपगमनादयस्त्रयो भेदा यस्य तत् तथा, पादपोपगमनम् १, इङ्गिनी २, भक्तपरिज्ञा ३ चेति त्रिविधानशनोपलक्षितं मरणमपि त्रिविधमित्यर्थः ‘उक्तं' प्ररूपितं जिनैरिति शेषः ।
तत्र पादपो –वृक्ष उपशब्दश्चौपम्येऽपिसादृश्येऽपि दृश्यते ततश्च पादपमुपगच्छति - सादृश्येन प्राप्नोतीति पादपोपगमनं, पादपवन्निश्चलमित्यर्थः १, इङ्ग्यते - प्रतिनियतदेश एव चेष्ट्यतेऽस्यामनशनक्रियायामितीङ्गिनी श्रुतविहितक्रियाविशेषस्तद्विशिष्टमनशनमिङ्गिनी २, भक्तस्य - भोजनस्य परिज्ञा - ज्ञपरिज्ञया परिज्ञानं प्रत्याख्यानपरिज्ञया च प्रत्याख्यानं भक्तपरिज्ञा ३ ॥ १४९ ॥
अथैषां स्वरूपाभिधित्सायां श्लोकद्वयमाह - आद्यसंह [न] निनामेव, तत्रादिममचेष्टने । इङ्गिनीमरणं चेष्टावतामाहारवर्जनात् ॥१५०॥
१. सपर्याय-L.P.C. ॥ २. च - L.P. नास्ति ॥ ३. L. P. C. । म्रिये - मु० ॥ ४. वेद्यते - L.P.C. I ५. आद्यसंहनिनामेव - L. P. C. I
D:\new/d-3.pm5\3rd proof