________________
संलेखनास्वरूपम् , संलेखनाऽतिचाराः -श्लो० १४७/१४८॥]
[७५३ णाइविगिट्ठो अ तवो, छम्मासे परिमिअंच आयामं । अन्ने वि अ छम्मासा, होइ विगिटुं तवोकम्मं ॥२॥ [ पञ्च./१५७५ ] वासं कोडीसहिअं, आयामं तहय आणुपुव्वीए ।
संघयणादणुरूवं, एत्तो अद्धाइ निअमेणं" ॥३॥[ पञ्च./१५७६ ] देहे असंलिखिते सति सहसा क्षिप्यमाणैर्मांसादिभिः धातुभिः शरीरिणश्चरमकाले आर्त्तध्यानं जायते, विधिना तु स्तोकं स्तोकं क्षिप्यमाणैर्धातुभिर्तिध्यानं भवविटपिबीजभूतं भवतीति युक्तैव संलेखना । अत्राह पर: –ननु आत्मपरोभयगतेति त्रिविधातिपातक्रिया बहुशोऽनिष्टफलदा सूत्रे भणितेत्यात्मवधनिमित्तमेषा संलेखना समभाववृत्तेर्यतिजनस्य कथं युज्यते? इति, अत्रोच्यते, सत्यं, त्रिविधातिपातक्रियेति, न त्वेषात्मवधनिमित्ता तल्लक्षणविरहात् , तल्लक्षणं च 'प्रमादयोगान्नियमाद्रागादिदोषसंतप्ता स्वरूपत आज्ञातो बहिर्भूता उच्छास्त्रा च'इति । तदुक्तं पञ्चवस्तुके
"जा खलु पमत्तजोगा, णिअमा रागाइदोससंतत्ता।
आणाओ बहिभूआ, सा होयइवायकिरिआ उ" ॥१॥[पञ्च./१५८६] त्ति । या पुनरेतद्वियुक्ता क्रिया शुभभावर्धिनी च नियमेनायत्यां सा शुद्धक्रिया भवति, तल्लक्षणयोगत एवेति । तदुक्तं तत्रैव -
"जा उण एअविजुत्ता, सुहभावविवड्डणी अणिअमेणं ।
सा होइ सुद्धकिरिआ, तल्लक्खणजोगओ चेव" ॥१॥[पञ्च./१५८७ ] इति । प्रतिपद्यते च संलेखनाक्रियां य इह जन्मनि निष्ठितार्थः शुभमरणमात्रकृत्यः, यदि परं तस्यैषा संलेखना शुद्धक्रिया जायते, मरणप्रतीकारभूता चैषा, एवं चोक्तन्यायान्न मरणनिमित्ता यथा गण्डच्छेदक्रिया दुःखरूपापि नात्मविराधनारूपेति । तस्मादियमाराधना चरमणगुणसाधकस्वभाववृद्धिनिमित्तमवश्यं कर्त्तव्येति नियूंढम् ॥१४७॥ इत्युक्ता संलेखनाऽथ तदतिचारानाह -
ऐहिकामुष्मिकाशंसाऽऽशंसा जीवितकालयोः ।
निदानं चेत्यतिचारा, मताः संलेखनाव्रते ॥१४८॥ इह भवा ऐहिका इहलोकसम्बन्धिनोऽर्थाद्धन-पूजा-कीर्त्यादयः, अमुत्र भवा आमुष्मिकाः -परलोकसम्बन्धिनः स्वर्गसुखादयस्तत ऐहिकाश्च आमुष्मिकाश्चेति
१. “से-पञ्चवस्तुके ।। २. पञ्चवस्तुके गाथा १५७४-५६ ॥
D:\new/d-3.pm53rd proof