SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ७५२] [ धर्मसंग्रहः - तृतीयोऽधिकारः च प्रायः संलेखनापूर्वमिति प्रथमं सा वाच्या, सा च गृहस्थानामपि भवति, परमुभयसाधारणत्वाद् यतिधर्मप्रस्तावे उपन्यस्तेति ज्ञेयम् । अथ तस्या एव भेदानाह –' सा च 'इत्यादि, सा च –संलेखना उत्कृष्टादिभेदेन उत्कृष्ट-मध्यम- जघन्यप्रकारेण 'त्रिविधा' त्रिप्रकारा ‘जिनैः' केवलिभि: ‘गदिता' प्रोक्ता । तत्रोत्कृष्टा द्वादशवार्षिकी । तथाहि - प्रथमं चत्वारि वर्षाणि यावत् चतुर्थ-षष्ठा - ऽष्टमादीनि विचित्राणि तपांसि कुरुते, पारणकं च सर्वकामगुणितेनोद्गमादिशुद्धेनाहारेण विधत्ते, ततः परमन्यानि चत्वारि वर्षाणि तथैव विचित्राणि तपांसि कुरुते, परं पारणके निर्विकृतिकं भुङ्क्ते, ततः परतोऽन्ये द्वे वर्षे एकान्तरमाचामाम्लं करोति, एकान्तरं चतुर्थं कृत्वाऽऽचामाम्लेन पारयतीत्यर्थः, एवं दशवर्षान्तरमेकादशे वर्षे आद्यान् षण्मासान् चतुर्थं षष्ठं वा तपः कुरुते, न चाष्टमाद्यतिविकृष्टं, पारणके चोनोदरतासंपन्नमाचामाम्लं करोति, ततः परमपरान् षण्मासान् विकृष्टं विकृष्टं तपः पारणके च मा शीघ्रमेव मरणं यासमितिकृत्वा परिपूर्णघ्राण्याऽऽचाम्लं करोति, न पुनरूनोदरतया, द्वादशं तु वर्षं कोटीसहितं निरन्तरमाचाम्लं करोति । उक्तं च निशीथचूर्णौ - "दुवालसमं वरिसं निरंतरं हायमाणं उसिणोदएणं, आयंबिलं करेइ, तं कोडिसहिअं भवइ, जेणायंबिलस्स कोडी कोडीए मिलइ त्ति" । [ ] 1 इह च द्वादशे वर्षे भोजनं कुर्वन् प्रतिदिनमेकैककवलहान्या तावदूनोदरतां करोति यावदेकं कवलमाहारयति तत एकैकसिक्थहान्या, यावच्चान्ते एकमेव सिक्थं भुङ्क्ते, यथा दीपे समकालं तैलवर्त्तिक्षयो भवति तथा शरीरायुषोरपि समकं क्षयः स्यादितिहेतोः, अपरं च इह द्वादशवर्षस्य पर्यन्तवर्त्तिनश्चतुरो मासान् यावदेकान्तरितं तैलगण्डूषं चिरकालमसौ मुखे धार्यते, ततः श्लेष्ममल्लके भस्ममध्ये प्रक्षिप्य मुखमुष्णोदकेन शोधयति, यदि पुनस्तैलगन्डूषविधिः न कार्यते तदा रूक्षत्वाद् वातेन मुखयन्त्रमीलनसम्भवे पर्यन्तसमये नमस्कारमुच्चारयितुं न शक्नोतीति । तदेवमनयाऽऽनुपूर्व्या क्रमेण द्वादशवार्षिकी उत्कृष्टा संलेखना। मध्यमा तु पूर्वोक्तप्रकारेण द्वादशभिर्मासैः, जघन्या च द्वादशभिः पक्षैः परिभावनीया, वर्षस्थाने मासान् पक्षांश्च स्थापयित्वा तपोविधिः प्रागिव निरवशेष उभयत्रापि परिभावनीयः । यदुक्तम् " चत्तारि विचित्ताइं, विगईणिज्जूहिआणि चत्तारि । संवच्छरेण दोन्नि उ, एगंतरिअं च आयामं ॥१॥ [पञ्च./१५७४ ] १. 'चाम्लं - L ॥ २. चाम्लेन - L | ३. चाम्लं- LI D:\new/d-3.pm5\3rd proof
SR No.009692
Book TitleDharma Sangraha Part 2
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages446
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy