________________
गण्यादिपदपालनकालः, संलेखनास्वरूपम् -श्लो० १४६/१४७॥] [७५१ साध्वीनां पुनरियं शिक्षा -
"कुलवहुदिटुंतेणं, कज्जे निब्भच्छियाहिँ वि कहिं वि। एयाइ पायमूलं, आमरणंतं न मोत्तव्वं ॥१॥[ ] ण य पडिकूलेयव्वं, वयणं गुरुणीए नाणरासीए।
एवं गिहवासचाओ, जं सफलो होइ तुम्हाणं" ॥२॥[ ] ॥१४५।। व्यावर्णिता सप्रपञ्चं गणाद्यनुज्ञा, साम्प्रतं शेषसापेक्षयतिधर्मप्रस्तावनाय तत्पालनकालमाह -
विधिना गुर्वनुज्ञातगण्यादिपदपालनम् ।
तावद् यावच्च चरमकालो न स्यादुपस्थितः ॥१४६॥ गुरुणा -अनुज्ञाचार्येणाऽनुज्ञातानि दत्तानीत्यर्थः, यानि गण्यादिपदानि आचार्योपाध्यायप्रवर्तक-स्थविर-गणावच्छेदक-प्रवर्त्तिन्यादिस्थानानि, तेषां पालनं -सत्पालनं 'तावत्' तत्कालावधि भवतीतिशेष, तमेवाह –'यावत्' यत्कालावधिना 'चरमकालः' प्रान्तसमय: ‘उपस्थितः' सम्प्राप्तो ‘न स्यात्' न भवेत् , अन्तकालप्राप्ति यावद् गण्यादिपदपालनमिति भावः ॥१४६।। अथ चरमकालोपस्थितौ किं कर्त्तव्यमित्याह -
उपस्थितेऽथ तस्मिंस्तु , सम्यग्संलेखनाकृतिः ।
सा चोत्कृष्टादिभेदेन, त्रिविधा गदिता जिनैः ॥१४७॥ 'अथ' गण्यादिपदपालनान्तरं 'तस्मिन्' चरमकाले 'उपस्थिते' सम्प्राप्ते तुशब्दो विशेषणार्थ: 'सम्यग्' वक्ष्यमाणविधिना संलिख्यन्ते कृशीक्रियन्ते देह-कषायादयो यया सा संलेखना-तप:क्रिया तस्याः ‘कृतिः' करणं सापेक्षयतिधर्मो भवतीति सम्बन्धः, यद्यपि सर्वैव तप:क्रिया कषायादिसंलेखनात्मिका भवति तथाऽप्यत्र चरमकाले देहत्यागाय विशिष्टा सा गृह्यते इति भावः । गण्यादिपदपालनान्तरं यतीनामभ्युद्यतविहारस्याभ्युद्यतमरणस्यैव वोचितत्वाद् । यदुक्तं पञ्चवस्तुके -
"परिपालिऊण विहिणा, गणिमाइपयं जईणमिअमुचिअं।।
अब्भुज्जुओ विहारो, अहवा अब्भुज्जुअं मरणं" ॥१॥[पञ्च./१३६८ ] त्ति । अभ्युद्यतविहारश्च स्वातन्त्र्येण निरपेक्षयतिधर्मत्वेनोपरिष्टाद् वक्ष्यमाणः, अभ्युद्यतमरणं
१. सत्पापनं-P.C. ॥ २-३. P. पञ्चवस्तुके । अब्भुज्ज० मु० C. ||
D:\new/d-3.pm53rd proof