________________
७५० ]
अथ स्थविरपदयोग्यगुणानाह -
तेन व्यापारितेष्वर्थेष्वनगारांश्च सीदतः ।
स्थिरीकरोति सच्छक्तिः, स्थविरो भवतीह सः ॥ १४४ ॥
‘तेन' प्रवर्त्तकेन ‘व्यापारितेषु' नियोजितेषु 'अर्थेषु' तपः संयमादिकार्येषु 'सीदतः ' प्रमादादिनाऽप्रवर्त्तमानान् 'अनगारान्' साधून् यः ‘स्थिरीकरोति' तत्तदुपायेन दृढीकरोति, कीदृशः ?–‘सच्छक्तिः' सत्सामर्थ्यः, स साधुः 'इह' जिनमते ' स्थविरो' भवति नान्य इति भावः ॥१४४॥
अथ गणावच्छेदकयोग्यगुणानाह -
-
[ धर्मसंग्रहः - तृतीयोऽधिकारः
प्रभावनोद्धावनयोः, क्षेत्रोपध्येषणासु च ।
अविषादी गणावच्छेदकः सूत्रार्थविन्मतः ॥ १४५॥
'प्रभावना' जिनशासनस्योत्सर्पणाकरणम्, 'उद्भावना' उत्प्राबल्येन धावना गच्छोपग्रहार्थं दूरक्षेत्रादौ गमनमित्यर्थः, तेयो:, तथा क्षेत्रं - ग्रामादि योग्यस्थानम्, उपधिः –कल्पादिस्तयोरेषणा मार्गणा गवेषणेति यावत् आसु 'अविषादी' खेदरहितः, तथा ‘सूत्रार्थवित्' उचितसूत्रार्थज्ञाता, ईदृशो 'गणावच्छेदकः' तत्संज्ञो 'मतः ' प्रज्ञप्तो जिनैरितिशेषः, न पुनर्गुणरहित इति भावः । उक्तगुणानुसारेणैव चैषां पञ्चानामसाधारणा अधिकारा यतिदिनचर्यायां प्रोक्ताः । तथाहि
-
" गच्छे अत्थं १ सुत्तं २, तवपमुहं ३ तत्थ चेव य थिरत्तं ४ ।
खित्तोवहिगहणाई ५, सूरिप्पमुहा पसाहंति" ॥१॥ [ य.दि./१०४ ] त्ति । अत्र प्रसङ्गाद् वाचनाचार्यपदमपीत्थमेव ज्ञेयं, स च गुर्वादेशेनानुज्ञातः सूरिवत् सर्वकृत्यानि करोति, वन्दनके तु पर्यायेणैव ज्येष्ठः, गोचरचर्यायामप्यस्य न निषेधः, तथा पूर्वोक्तस्वरूपा प्रवर्त्तिनी आगमभाषयाऽभिषेकात्युच्यते, तस्याः पदस्थापनविधिः सर्वोऽपि महत्तरावद् विज्ञेयः, केवलं मन्त्रो वर्द्धमानविद्या, वन्दनकं पर्यायक्रमेण, महत्तरापदविधिश्च गन्धक्षेपादिकः सर्वोऽप्युपाध्यायपदवत् विज्ञेयः, इयमपि सर्वव्रतिनीनां वन्दनार्हा । अनुशास्तिः पुनरेवम्"सव्वन्नुदेसियमिणं, पयं पहाणं पहाणफलजणयं । बंभीसुंदरिचंदणपभिईहिं निसेवियं सम्मं ॥ १ ॥ [ ] तो तुम समणीओ, तुब्भं सरणागया भवभयाओ । सारणवारणचोयणमाईहिं रक्खियव्वाओ " ॥२॥ [ ]
D:\new/d-3.pm5\ 3rd proof
१. 'नार्हः-P. संशो० ॥ २. तथा अर्हं योग्यं क्षेत्रं ग्रामादिस्थानम्, अर्ह उपधिः योग्यकल्पादि
P. संशो० ॥ ३. P. । सर्वव्रतिनीनानां C. । सर्वव्रति (नी) जनानां - मु० ॥