________________
उपाध्यायपदप्रदानविधिः, उपाध्यायादिचतुर्णां गुणा: -श्लो० १४१/१४५॥] [७४९ ___ "औं नमो अरिहंताणं औं नमो सिद्धाणं औं नमो आयरिआणं औं नमो उवज्झायाणं ओनमोलोए सव्वसाहणं ओनमो अरहओ भगवओ महइमहावीरवद्धमाणसामिस्स सिज्झउ मे भगवई महइ महाविज्जा वीरे वीरे महावीरे जयवीरे सेणवीरे वद्धमाणवीरे जए विजए जयंते अपराजिए अणिहए औं ही ठः ठः (ठः) स्वाहा'" इति।
एते पञ्चापि पदस्था अवमरत्नाधिका अपि सर्वसाधूनां पर्यायज्येष्ठानां वन्दनार्हाः "एए ओमा वि वंदिज्जंति" [ ] त्ति । आगमवचनप्रामाण्यात् । किञ्च -
"तत्थ न कप्पइ वासो, गुणागरा जत्थ नत्थि गच्छंमि ।
आयरिअउवज्झाए पवित्ती थेरे अ रायणिए" ॥१॥[ ] त्ति । गच्छस्यापि चैतैरेव प्रामाण्यं । यतो दिनचर्यायाम् - "सो किं गच्छो भन्नइ, जत्थ न विज्जंति पंच वरपुरिसा ? ।
आयरिअ उवज्झाया, पवत्ति थेरा गणावच्छा" ॥१॥[ य.दि./१०२] इति । उपाध्यायादिपदानुज्ञा कीदृशानां क्रियते इति तद्योग्यगुणानाह –'तेषु'इत्यादि, तेषूपाध्यायपदादिषु गीतार्थत्वगुणः 'तुल्यः' साधारणः, चत्वार्यपि पदानि सामान्यतो गीतार्थस्यैवानुज्ञायन्ते इत्यर्थः । 'व्यक्त्या' विशेषेण गुणाः, तुशब्दो विशेषणार्थः 'अमी' वक्ष्यमाणाः ‘क्रमात्' उपाध्यायादिचतुर्णां पदेष्वानुपूर्वेण भवन्तीति ॥१४१॥ तानेव चतुभिः श्लोकैर्गुणिमुखेन क्रमेणाभिधित्सुस्तावदुपाध्यायपदयोग्यगुणानाह
सम्यक्त्वज्ञानचारित्रयुगाचार्यपदोचितः ।
सूत्रार्थविदुपाध्यायो, भवेत् सूत्रस्य वाचकः ॥१४२॥ सम्यक्त्वज्ञानचारित्रैः संयुक्तः तथा आचार्यस्थानयोग्यः तथा सूत्रार्थज्ञाता तथा सूत्रस्य वाचकः, एवंविध उपाध्यायो भवेद् , उपाध्यायपदयोग्य इत्यर्थः ॥१४२।। अथ प्रवर्तकगुणानाह -
तपःसंयमयोगेषु , योग्यं यो हि प्रवर्त्तयेत् ।
निवर्तयेदयोग्यं च, गणचिन्ती प्रवर्तकः ॥१४३॥ 'गणचिन्ती'ति गणचिन्ताकारकः, शेषं सुगमम् । प्रशस्तयोगेषु साधून् प्रवर्त्तयतीति प्रवर्तकः प्रवर्तकपदयोग्य इत्यर्थः ॥१४३।।
१. ठः ठः स्वाहा-L.P.C. ||
D:\new/d-3.pm5\3rd proof